श्री शनि स्तोत्रम्- स्कन्द पुराणोक्त | Shri Shani Stotram


Shri Shani Stotram from Skanda Puran Lyrics in Sanskrit:

Shri Shani Stotram from Skanda Puran Lyrics in Sanskrit

श्री शनि स्तोत्रम्- स्कन्द पुराणोक्त

दशरथो उवाच
नम: कृष्णाय नीलाय, शिति कण्ठ निभाय च ।
नमो नील मयूखाय, नीलोत्पल निभाय च ॥1॥

नमो निर्मांस देहाय, दीर्घश्मश्रु जटाय च ।
नमो विशाल नेत्राय, स्थूल रोम्णे नमो नम:॥2॥

नमो दीर्घाय शुष्काय, कालदंष्ट्र नमोSस्तुते ।
नमस्ते कोटरस्थाय, दुर्निरीक्ष्याय ते नम: ॥3॥

नमो घोराय रौद्राय, भीषणाय करालिने ।
नमस्ते सर्व भक्ष्याय, बली मुख नमोSस्तुते ॥4॥

सूर्यपुत्र नमस्तेSस्तु, सर्वातर्क्य  नमोSस्तुते ।
नम: कालाग्नि रुद्राय, कृतान्ताय च वै नम: ॥5॥

नमो मन्दगते तुभ्यं, निस्त्रिंशाय नमो नम: ।
तपसा दग्ध देहाय, नित्यं योगरताय च ॥6॥

ज्ञानचक्षुर्नमस्तेSस्तु, कश्यपात्मज सूनवे ।
तुष्टो ददासि वै राज्यं, रुष्टौ वै हरसि क्षणात्॥7॥

देवासुर मनुष्याश्च सिद्ध विद्याधरोरगा: ।
त्वया विलोकिता: सर्वे, दैन्यमाशु व्रजन्ति ते ॥8॥

ब्रह्मा शक्रो मनु श्चैव, ऋषय: सप्त तारका: ।
भ्रष्टराज्या: पतन्त्येते तव दृष्ट्यावलोकिता: ॥9॥

देशा श्च नगरग्रामा:, दिश श्चैव द्रुमास्तथा ।
त्वया विलोकिता: सर्वे, नाशं यान्ति समूलत:॥10॥

प्रसादं कुरु मे सौरे, वरार्थे तव संस्थित: ।
एवं स्तुत स्तदा सौरिर्ग्रहराजो महाबल: ॥11॥

अब्रवीच्च शनिर्वाक्यं, हृष्ट रोमा स पार्थिवम्।

शनिरुवाच
तुष्टोSहं तव राजेन्द्र, स्तवेनानेन मानद ।
वरं ब्रूहि प्रदास्यामि, स्वेच्छया रघुनन्दन ॥12॥

दशरथ उवाच
प्रसन्नस्त्वं यदा सौरे, वरं देहि ममेप्सितम्।
अद्य प्रभूति सौरे ते, पीड़ा कार्या न कस्यचित्॥13॥

देवासुर मनुष्याणां, पशु पक्षि शरीरिणाम्।

शनिरुवाच
ग्रहाणां स ग्रहो ज्ञेयो, यस्तु पीड़ाकर: स्मृत: ।
अदेयो हि यस्तु, तुभ्यं चैव ददामि तमम्॥14॥

त्वया प्रोक्तं च मे स्तोत्रं, य: पठिष्यति मानव: ।
एककालं द्विकालं वा, पीड़ा मुंचामि तस्य वै ॥15॥

देवासुर मनुष्याणां, सिद्ध विद्याधर राक्षसाम्।
मृत्युस्थान स्थितो वापि, जन्मस्थानगतोपि वा ॥16॥

य: पुन: श्रद्धया युक्त:, शुचि: स्नात: समाहित: ।
भक्त्योपचारैं: सम्पूज्य प्रतिमां लोहजां मम ॥17॥

मद्दिने तु विशेषेण, स्तोत्रेणानेन पूजयेत्।
पूजयित्वा जप: स्तोत्रं, भूत्वा चैव कृतांजलि: ॥18॥

माषौदनं तिलैर्मिश्र, दद्यात् लोहं च दक्षिणाम्।
कृष्णांगां वृषभं वापि, दद्याद् विप्राय धीमते ॥19॥

तस्य पीड़ा न चैवाहं, करिष्यामि कदाचन ।
गोचरे जन्मलग्ने वा, दशास्वन्तदशासु च ॥20॥

रक्षामि सततं तस्य, पीड़ा मन्यग्रहै: कृताम्।
अनेनैव विद्यानेन पीड़ामुक्तं जगद् भवेत्॥21॥

वरद्वयं तु सम्प्राप्य राजा दशरथ स्तदा ।
स्वस्थानं च ततो गत्वा, प्राप्त कामोSभवन्नृप: ॥22॥


यह भी जानें–
Next Post Previous Post