श्री महाकाल शनि मृत्युंजय स्तोत्रम् | Shri Mahakal Shani Mrityunjay Stotram


Shri Mahakal Shani Mrityunjay Stotram Lyrics:

Shri Mahakal Shani Mrityunjay Stotram Lyrics

महाकाल शनि मृत्युंजय स्तोत्रम्

॥ श्री गणेशाय नमः ॥

विनियोग

ॐ अस्य श्री महाकाल शनि मृत्युञ्जय स्तोत्र मन्त्रस्य पिप्लाद ऋषिरनुष्टुप्छन्दो महाकाल शनिर्देवता शं बीजं मायसी शक्तिः काल पुरुषायेति कीलकं मम अकाल अपमृत्यु निवारणार्थे पाठे विनियोगः।

ॐ महाकाल शनि मृत्युंजयाय नमः।

नीलाद्रिशोभान्वित दिव्य मूर्ति: खड्गो त्रिदण्डी शरचापहस्त: ।
शम्भुर्महाकाल-शनि: त्रिपुरार्रिजयत्य शेष असुर नाशकारी ॥1॥

मेरुपृष्ठे समासीनं सामरस्ये स्थितं शिवम् ।
प्रणम्य शिरसा गौरी पृच्छतिस्म जगत् हितम् ॥2॥

पार्वती उवाच
भगवन्! देवदेवेश! भक्ताअनुग्रहकारक ! ।
अल्पमृत्युविनाशाय यत्त्वया पूर्व सूचितम् ॥3॥

तदेव त्वं महाबाहो ! लोकानां हितकारम् ।
तव मूर्तिप्रभेदस्य महाकालस्य साम्प्रतम् ॥4॥

शनैर्मृत्युंजय स्तोत्रं ब्रूहि मे नेत्र जन्मन: ।
अकाल मृत्युहरणमsपमृत्यु निवारणम् ॥5॥

शनिमन्त्रप्रभेदा ये तैर्युक्तं यत्स्तवं शुभम् ।
प्रतिनाम चतुर्थ्यन्तं नमोsन्तं मनुनायुतम् ॥6॥

ईश्वर उवाच
नित्ये प्रियतमे गौरि सर्वलोकहितेरते ।
गुह्याद्गुह्यतमं दिव्य सर्वलोक उपकारकम् ॥7॥

शनिमृत्युंजयस्तोत्रं प्रवक्ष्यामि तवा Sधुना ।
सर्वमंगलमांगल्य सर्व – शत्रु विमर्दनम् ॥8॥

सर्व रोगप्रशमनं सर्वआपदविनिवारणम् ।
शरीरआरोग्यकरणम् आयुर्वद्धिकरं नृणाम् ॥9॥

यदि भक्तासि मे गौरी गोपनीयं प्रयत्नत: ।
गोपितं सर्वतन्त्रेषु तच्छृणुष्व महेश्वरी ! ॥10॥

ऋषिन्यासं करन्यासं देहन्यासं समाचरेत् ।
महोग्रं मूर्घ्नि विन्यस्य मुखे वैवस्वतं न्यसेत् ॥11॥

गले तु विन्यसेन्मन्दं बाह्वोर्महाग्रहं न्यसेत् ।
हृदिन्यसेत् महाकालं गुह्ये कृशतनुं न्यसेत् ॥12॥

जान्वो स्तूडुचरं न्यस्य पादयोस्तु शनैश्चरम् ।
एवं न्यासविधिं कृत्वा पश्चात् कालात्मन: शनै: ॥13॥

न्यासं ध्यानं प्रवक्ष्यामि तनौ ध्यात्वा पठेन्नर: ।
कल्पादियुगभेदांश्च करांगन्यासरुपिण: ॥14॥

कालात्मनोन्यसेद् गात्रे मृत्युंजय ! नमोSस्तुते ।
मन्वन्तराणि सर्वाणि महाकालस्वरूपिण: ॥15॥

भावयेत्प्रति प्रत्यंगे महाकालाय ते नम: ।
भावयेत् प्रभवाद्यब्दान् शीर्षे कालजिते नम: ॥16॥

नमस्ते नित्यसेव्याय विन्यसेदयने भ्रुवो: ।
सौरये च नमस्तेSस्तु गण्डयोर्विन्यसेद्त्रृत् न् ॥17॥

श्रावणं भावयेद्क्ष्णो नम: कृष्णनिभाय च ।
महोग्राय नमो भाद्रं तथा श्रवणयोर्न्यसेत् ॥18॥

नमो वै दुर्निरीक्ष्याय चाश्र्विनं विन्यसेन् मुखे।
नमो नीलमयूखाय ग्रीवायां कार्तिकं न्यसेत् ॥19॥

मार्गशीर्ष न्यसेद् बाहर्वोमहारौद्राय ते नम: ।
ऊर्ध्वलोकनिवासाय पौषं तु हृदये न्यसेत् ॥20॥

नम: कालप्रबोधाय माघं वै चौदरे न्यसेत् ।
मन्दगाय नमो मेढ्रे न्यसेद्वै-फाल्गुनं तथा ॥21॥

ऊर्वोर्न्यसेच्चैत्रमासं नम: शिवोद्भवाय च ।
वैशाखं विन्यसेज्जान्वोर्नम: संवर्तकाय च ॥22॥

जंघर्योभावयेज्ज्येष्ठं भैरवाय नम-स्तथा ।
आषाढ़ पाद्योश्चैव शनये च नम-स्तथा ॥23॥

कृष्णपक्षं च क्रूराय नम: आपाद-मस्तके ।
न्यसेदाशीर्षपादान्ते शुक्लपक्षं ग्रहाय च ॥24॥

न्यसेन् मूलं पादयोश्र्च ग्रहाय शनये नम: ।
नम: सर्वजिते चैव तोयं सर्वांगुलौ न्यसेत् ॥25॥

(इस श्लोक में तोयं, पूर्वाषाढ़ा नक्षत्र से संबंधित है)
न्यसेत्-गुल्फद्वये विश्वं नम: शुष्कतराय च ।
श्रवणं भावयेज्जंघोभये शिष्टतमाय ते ॥26॥

(इस श्लोक में विश्वं, उतराषाढ़ा नक्षत्र से संबंधित है)
जानुद्वये धनिष्ठां च न्यसेत् कृष्णरुचे नम: ।
ऊरुद्वये वारुणर्क्षं न्यसेत् कालभृते नम: ॥27॥

(इस श्लोक में वारुणर्क्षं, शतभिषा नक्षत्र से संबंधित है)
पूर्वभाद्रं न्यसेन्मेढ्रे जटा-जूट-धराय च ।
पृष्ठे उत्तर-भाद्रं च करालाय नमस्तथा ॥28॥

रेवतीं च न्यसेन्नाभौ नमो मन्दचराय च ।
न्यसेद्Sश्विन्यौ गर्भदेशे नम: श्यामतराय च ॥29॥

नमो भोगिस्रजे नित्यं यमं स्तनयुगे न्यसेत् ।
न्यसेत् कृर्त्तिकां हृदये नमस्तैलप्रियाय च ॥30॥

रोहिणीं भावयेधस्ते नमस्ते खड्ग-धारिणे ।
मृगं न्यसेद्वामस्ते त्रिदण्डोल्लसिताय च ॥31॥

दक्षार्द्धे भावयेद्रौद्र नमो वै प्राणधारिणे ।
पुनर्वसुमर्द्धवामे नमो वै चापधारिणे ॥32॥

पुष्यं न्यसेद्दक्षबाहौ नमस्ते हर मन्यवे ।
अश्लेषा न्यसेद्वामबाहौ चोग्रचापाय ते नम: ॥33॥

मघां विभावयेत् कण्ठे नमस्ते भस्मधारिणे ।
मुखे न्यसेद्भगर्क्ष च नम: क्रूरग्रहाय च ॥34॥

भावयेद् दक्षनासायामSर्यमाणश्च योगिने ।
भावयेद्वामनासायां हस्तर्क्षं धारिणे नम: ॥35॥

चित्रा न्यसेद्दक्षकर्णे नमो कृशनान्नप्रियाय च ।
स्वाति न्यसेद् वामकर्णे नमो ब्रूह मयाय च ॥36॥

विशाखां च दक्षनेत्रे नमस्ते ज्ञानदृष्टये ।
अनुराधां वामनेत्रे नमस्ते क्रूरदृष्टये ॥37॥

ज्येष्ठां न्यसेत् नासाग्रे सर्वज्येष्ठाय ते नम: ।
विष्कुम्भं भावयेच्छीर्ष-सन्धौ कालाय ते नम: ॥38॥

प्रीतियोगं भ्रुवो: सन्धौमहामन्द ! नमोsस्तुते ।
नेत्रयो: सन्धवायुष्मानयोगं भीष्माय ते नम: ॥39॥

सौभाग्यं भावयेन् नासासन्धौ फलाशनाय च ।
शोभनं भावयेत् कर्णं सन्धौ पुण्यात्मने नम: ॥40॥

नम: कृष्णा यातिगण्डं हनुसन्धौ विभावयेत् ।
नमो निर्मासदेहाय सुकर्माणं शिरोधरे ॥41॥

धृतिं न्यसेद् दक्षबाहौ पृष्ठे छाया-सुताय च ।
तन्मूलसन्धौ शूलं च न्यसेदुग्राय ते नम: ॥42॥

यत्कूर्परे न्यसेद् गण्डे नित्यानन्दाय ते नम: ।
वृद्धिं तन्मणिबन्धे च कालज्ञाय नमो न्यसेत् ॥43॥

ध्रुवं तदंगुलीमूलसन्धौ कृष्णाय ते नम: ।
व्याघातं भावयेद्वामबाहुपृष्ठे कृशाय च ॥44॥

हर्षणं तन्मूलसन्धौ भूतसन्तापिने नम: ।
तत्कर्पूरे न्यसेद्वज्रं सानन्दाय नमोSस्तुते ॥45॥

सिद्धिं तन्मणिबन्धे च न्यसेत् कालाग्नये नम: ।
व्यतीपात कराग्रेषु न्यसेत् कालकृते नम: ॥46॥

वरीयान् सं दक्षपार्श्वसन्धौ कालात्मने नम: ।
परिघं भावयेद्वामपार्श्वसन्धौ नमोSस्तुते ॥47॥

न्यसेद् दक्षोरुसन्धौ च शिवं वै कालसाक्षिणे ।
तज्जानौ भावयेत्सिसिद्धिं महादेवाय ते नम: ॥48॥

साध्यं न्यसेच्च तद्गुल्फसन्धौ घोराय ते नम: ।
न्यसेत्तदंगुलीसन्धौ शुभं रौद्राय ते नम: ॥49॥

न्यसेद्वामोरुसन्धौ च शुक्लकालविदे नम: ।
ब्रह्मयोगं च तज्जानौ न्यसेत् सत् योगिने नम: ॥50॥

ऎन्द्रं तद्गुल्फसन्धौ च योगाSधीशाय ते नम: ।
न्यसेत्तदंगुलीसन्धौ नमो भव्याय वैधृतिम् ॥51॥

चर्मणि बवकरणं भावयेद्यज्ञिने नम: ।
बालवं भावयेद्रक्ते संहारक ! नमोSस्तुते ॥52॥

कौलवं भावयेदस्थिने नमस्ते सर्वभक्षिणे ।
तैतिलं भावयेन्मांसे आममांसप्रियाय ते ॥53॥

गरं न्यसेद्वसायां च सर्वग्रासाय ते नम: ।
न्यसेत्वणिजं मज्जायां सर्वान्तक ! नमोSस्तुते ॥54॥

वीर्येभावयेद्विष्टिं नमो मन्यूग्रतेजसे ।
रुद्रमित्र ! पितृवसुवारीण्येतांश्च पंच च ॥55॥

मुहूर्ताश्च दक्षपादनखेशु भावयेन् नम: ।
खगेशाय च खस्थाय खेचराय स्वरूपिणे ॥56॥

पुरुहूतशतमखे विश्ववैधो विधूंस्तथा ।
मुहूर्ताश्च वामपादनखेषु भावयेन्नम: ॥57॥

सत्यव्रताय सत्याय नित्यसत्याय ते नम: ।
सिद्धेश्वर ! नमस्तुभ्यं योगेश्वर ! नमोSस्तुते ॥58॥

वन्हिनक्तं चरांश्चैव वरुण अर्यम् योनिकान् ।
मुहूर्ताश्च दक्षहस्तस्तनेषु भावयेन् नम: ॥59॥

लग्नोदयाय दीर्घाय मार्गिणे दक्षदृष्टये ।
वक्राय चातिक्रूराय नमस्ते वामदृष्टये ॥60॥

वामहस्तस्तनेष्वन्त्यवर्णेशाय नमोSस्तुते ।
गिरिशाहिर्बुध्न्यपूषा जयद्दस्त्रांश्च भावयेत् ॥61॥

राशिभोक्त्रे राशिगाय राशिभ्रमणकारिणे ।
राशिनाथाय राशिनां फलदात्रे नमोSस्तुते ॥62॥

यमाग्निचन्द्रादितिकविघृतंश्च विभायेत् ।
ऊर्ध्वहस्तदक्षनखेष्वन्त्य कालाय ते नम: ॥63॥

तुलोच्चस्थाय सौम्याय नक्र कुम्भगृहाय च ।
समीरत्वष्ट जीवांश्च विष्णुतिग्म द्युतीन् न्यसेत् ॥64॥

ऊर्ध्ववाम-हस्त-नखेष्वन्य ग्रह-निवारिणे ।
तुष्टाय च वरिष्ठाय नमो राहु सखाय च ॥65॥

रविवारं ललाटे च न्यसेद्भीमदृषे नम: ।
सोमवारं न्यसेदास्ये नमो मृतप्रियाय च ॥66॥

भौमवारं न्यसेत् स्वान्ते नमो ब्रह्मस्वरूपिणे ।
मेढ्रे न्यसेत् सौम्यवारं नमो जीवस्वरूपिणे ॥67॥

वृषणे गुरुवारं च नमो मन्त्रस्वरूपिणे ।
भृगुवारं मलद्वारे नम: प्रलयकारिणे ॥68॥

पादयो: शनिवारं च निर्मांसाय नमोSस्तुते ।
घटिकां न्यसेत् केशेषु नमस्ते सूक्ष्म-रुपिणे ॥69॥

कालरूपिन् नमस्तेSस्तु सर्वपाप-प्रणाशक ! ।
त्रिपुरस्य वधार्थाय शम्भुजाताय ते नम: ॥70॥

नम: कालशरीराय कालपुरुषाय ते नम: ।
कालहेतो ! नमस्तुभ्यं कालानलाय वै नम: ॥71॥

अखण्ड-दण्ड-मानाय त्वाम्Sनाध्यंताय वै नम: ।
कालदेवाय कालाय कालकालाय ते नम: ॥72॥

निमेषादिमहाकल्पं-कालरूपं च भैरवम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥73॥

दातारं सर्वभव्यानां भक्तानामSभयंकरम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥74॥

कर्त्तारं सर्वदु:खानां दुष्टानां भयवर्धनम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥75॥

हर्त्तारं ग्रहजातानां फलानामाघकारिणाम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥76॥

सर्वेषामेव भूतानां सुखद शान्तिमव्ययम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥77॥

कारणं सुखदु:खानां भावाSभावस्वरूपिणम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥78॥

अकालमृत्यु-हरणम् अपमृत्यु-निवारणम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥79॥

कालरूपेण संसारं भक्षयन्तं महाग्रहम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥80॥

दुर्निरीक्ष्यं स्थूलरोमं भीषणं दीघ्रलोचनम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥81॥

ग्रहाणां ग्रहभूतं च सर्वग्रह-निवारणम् ।
मृत्युंजयं महाकालं नमस्यामि शनैश्चरम् ॥82॥

कालस्य वशगा: सर्वे न काल: कस्यचिद्वश: ।
तस्मात्त्वां कालपुरुषं प्रणतोSस्मि शनैश्चरम् ॥83॥

कालदेव जगत्सर्वं काल एव विलीयते ।
कालरूप: स्वयं शम्भु: कालात्मा ग्रहदेवता ॥84॥

चण्डीशो रुद्रडाकिन्या-क्रान्तश्चण्डीश उच्यते ।
विद्युदाकलितो नद्या समारुढो रसाधिप: ॥85॥

चण्डीश: शुक्रसंयुक्तो जिह्वया ललित: पुन: ।
क्षतजस्तामसी शोभी स्थिरात्मा विद्युत-द्युत: ॥86॥

नमोSन्तो मनुरित्येष शनितुष्टिकर: शिवे ।
आद्यन्तेष्टोत्तरशतं मनु-मेनं जपेन्नर: ॥87॥

य पठेच्छ्णुयाद्वाSपि ध्यात्वा सम्पूज्य भक्तित: ।
तस्य मृत्योर्भयं नैव शतवर्षावधिप्रिये ! ॥88॥

ज्वरा: सर्वे विनश्यन्ति दद्रु विस्फोटकच्छुका: ।
दिवा सौरि स्मरेत् रात्रौ महाकालं यजन् पठेत् ॥89॥

जन्मर्क्षे च यदा सौरिर्जपेदेतत् सहस्रकम् ।
वैधगे वामवेधे वा जपेदर्द्धसहस्रकम् ॥90॥

द्वितीये द्वादशे मन्दे तनो वा चाष्टमेSपि वा ।
तत्तद्राशौ भवेद्यावत् पठेत्तावद्दीनावधि ॥91॥

चतुर्थे दशमे वाSपि सप्तमे नवपंचमे ।
गोचरे जन्मलग्नेशे दशास्वन्तर्दशासु च ॥92॥

गुरुलाघवज्ञानेन पठेदावृतिसंख्यया ।
शतमेकं त्रयं वाSथ शतयुग्मं कदाचन ॥93॥

आपदस्तस्य नश्यन्ति पापानि च जयं भवेत् ।
महाकालालये पीठे ह्यथ्वा जल सन्निधौ ॥94॥

पुण्यक्षेत्रेSश्वत्थमूले तैलकुम्भाग्रतो गृहे ।
नियमेनैकभक्तेन ब्रह्मचर्येण मौनिना ॥95॥

श्रोत्तव्यं पठितव्यं च साधकानां सुखावहम् ।
परं स्वस्त्ययनं पुण्यं स्तोत्रं मृत्युंजयाभिधम् ॥96॥

कालक्रमेण कथितं न्यास-क्रम-समन्वितम् ।
प्रात:काले शुचिर्भूत्वा पूजायां च निशामुखे ॥97॥

पठतां नैव दुष्टेभ्यो व्याघ्रसर्पादितो भयम् ।
नाग्नितो न जलाद्वायोर्देशे देशान्तरेSथवा ॥98॥

नाSकाले मरणं तेषां नाअपमृत्युभयं भवेत् ।
आयुर्वर्षशतं साग्रं भवन्ति चिरजीविन: ॥99॥

नाSत: परतरं स्तोत्रं शनितुष्टिकरं महत् ।
शान्तिकं शीघ्रफलदं स्तोत्रमेतन् मयोदितम् ॥100॥

तस्मात् सर्वप्रयत्नेन यदीच्छेदात्मनो हितम् ।
कथनीयं महादेवि नैवअभक्तस्य कस्यचित् ॥101॥

॥ इति मार्तण्ड-भैरव-तन्त्रे महाकाल-शनि-मृत्युञ्जय-स्तोत्रं सम्पूर्णम्‌ ॥


यह भी जानें–
Next Post Previous Post