श्री गणपति स्तोत्रम् | Shri Ganpati Stotram Mahalakshmi Kritam


Mahalakshmi Kritam Shri Ganpati Stotram:

HD image of Mahalakshmi Kritam Shri Ganpati Stotram Lyrics in Hindi with Video and PDF

श्री गणपति स्तोत्रम्

श्रीमहालक्ष्मिकृतम्

नमो महाधरायैव नानालीलाधराय ते ।
सदा स्वानन्दसंस्थाय भक्तिगम्याय वै नमः ॥ १॥

अनन्ताननदेहाय ह्यनन्तविभवाय ते ।
अनन्तहस्तपादाय सदानन्दाय वै नमः ॥ २॥

चराचरमयायैव चराचरविवर्जित ।
योगशान्तिप्रदात्रे ते सदा योगिस्वरूपिणे ॥ ३॥

अनादये गणेशायादिमध्यान्तस्वरूपिणे ।
आदिमध्यान्तहीनाय विघ्नेशाय नमो नमः ॥ ४॥

सर्वातिपूज्यकायैव सर्वपूज्याय ते नमः ।
सर्वेषां कारणायैव ज्येष्ठराजाय ते नमः ॥ ५॥

विनायकाय सर्वेषां नायकाय विशेषतः ।
ढुण्ढिराजाय हेरम्ब भक्तेशाय नमो नमः ॥ ६॥

सृष्टिकर्त्रे सृष्टिहर्त्रे पालकाय नमो नमः ।
त्रिभिर्हीनाय देवेश गुणेशाय नमो नमः ॥ ७॥

कर्मणां फलदात्रे च कर्मणां चालकाय ते ।
कर्माकर्मादिहीनाय लम्बोदर नमोऽस्तु ते ॥ ८॥

योगेशाय च योगिभ्यो योगदाय गजानन ।
सदा शान्तिघनायैव ब्रह्मभूताय ते नमः ॥ ९॥

किं स्तौमि गणनाथं त्वां सतां ब्रह्मपतिं प्रभो ।
अतश्च प्रणमामि त्वां तेन तुष्टो भव प्रभो ॥ १०॥

धन्याहं कृतकृत्याहं सफलो मे भवोऽभवत् ।
धन्यौ मे जनकौ नाथ यया दृष्टो गजाननः ॥ ११॥

एवं स्तुतवती सा तं भक्तियुक्तेन चेतसा ।
साश्रुयुक्ता बभूवाथ बाष्पकण्ठा युधिष्ठिर ॥ १२॥

तामुवाच गणाधीशो वरं वृणु यथेप्सितम् ।
दास्यामि ते महालक्ष्मि भक्तिभावेन तोषितः ॥ १३॥

त्वया कृतं च मे स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् ।
पठतां श‍ृण्वतां देवि नानाकार्यकरं तथा ।
धनधान्यादिसम्भूतं सुखं विन्दति मानवः ॥ १४॥

॥ इति श्रीमहालक्ष्मिकृतम् गणपतिस्तोत्रं सम्पूर्णम् ॥


यह भी जानें–
Next Post Previous Post