श्री गणेश पञ्चचामर स्तोत्रम् - (नमो गणाधिपायते त्वयाजगद्विनिर्मितं) | Ganesh Panchchamar Stotram 2

Shri Ganesh Panchchamar Stotram Lyrics in Sanskrit:

HD image of Shri Ganesh Panchchamar Stotram 2 Lyrics in sanskrit and Hindi with PDF

श्री गणेश पञ्चचामर स्तोत्रम्

नमो गणाधिपायते त्वयाजगद्विनिर्मितं
निजेच्छया च पाल्यतेऽधुनावशे तवस्थितम् ।
त्वमन्तरात्मकोस्यमुष्य तन्मयिस्थितः
पुनीहि मां जगत्पतेम्बिकातनूज नित्यशां करे ॥ १ ॥

गणेश्वरः कृपानिधिर्जगत्पतिः परात्परः
प्रभुस्स्वलीलया भवच्छिवान्मदावलाननः।
गिरीन्द्रजातनूभवस्तमेव सर्वकर्मसु
प्रपूजयन्ति देहिनस्समाप्नुवन्ति चेप्सितम् ॥ २ ॥

चतुःपुमर्थदायिभिश्चतुष्करैर्विलम्बिना
सहोदरेण सोदरेण पद्मजाण्डसन्ततेः ।
पदद्वयेन चापदां निवारकेण भासुरां
भजे भवात्मजं प्रभुं प्रसन्नवक्त्रमद्वयम् ॥ ३ ॥

बलिष्ठमूषकादिराजपृष्ठनिष्ठविष्ठर-
प्रतिष्ठितङ्गणप्रबर्ह पारमेष्ठ्यशोभितम् ।
गरिष्ठमात्मभक्तकार्यविघ्नवर्गभञ्जने
पटिष्ठमाश्रितावने भजामि विघ्ननायकम् ॥ ४ ॥

भजामि शूर्पकर्णमग्रजं गुहस्य शङ्करा-त्मजं
गजाननं समस्तदेवबृन्दवन्दितम् ।
महान्तराय शान्तिदं मतिप्रदं मनीषिणां
गतिं शृतिस्मृतिस्तुतं गणेश्वरं मदीश्वरम् ॥ ५ ॥

यदङ्घ्रिपल्लवस्मृतिर्निरन्तराय सिद्धिदा
यमेव बुद्धिशालिनस्स्मरन्त्यहर्निशं हृदि ।
यमाश्रितस्तरत्यलङ्घ्य कालकर्मबन्धनं
तमेवचित्सुखात्मकं भजामि विघ्ननायकम् ॥ ६ ॥

कराम्बुजस्फुरद्वराभयाऽक्षसूत्र पुस्तक
सृणिस्सबीजपूरकञ्जपाशदन्त मोदकान् ।
वहन्किरीटकुण्डलादि दिव्यभूषणोज्ज्वलो
गजाननो गणाधिपः प्रभुर्जयत्यहर्निशम् ॥ ७ ॥

गिरीन्द्रजामहेशयोः परस्परानुरागजं
निजानुभूतचित्सुखं सुरैरुपास्यदैवतम् ।
गणेश्वरं गुरुं गुहस्य विघ्नवर्गघातिनं
गजाननं भजाम्यहं न दैवमन्यमाश्रये ॥ ८ ॥

गणेशपञ्चचामरस्तुतिं पठध्वमादरात्
मनीषितार्थदायकं मनीषिणः कलौयुगे।
निरन्तराय सिद्धिदं चिरन्तनोक्तिसम्मतं
निरन्तरं गणेशभक्ति शुद्धचित्तवृत्तयः ॥ ९ ॥

॥ इति श्रीसुब्रह्मण्ययोगि विरचिता श्रीगणेशपञ्चचामरस्तुतिः ॥


यह भी जानें–
Next Post Previous Post