Swastivachan Aur Gauri Ganesh Pujan: नवरात्रि में स्वस्तिवाचन एवं गणेश पूजन करने का सही तरीका

Swastivachan Aur Gauri Ganesh Pujan: हिन्दू धर्म में किसी भी पूजा से पूर्व स्वस्तिवाचन व हवन अवश्य किया जाता है, क्योंकि इससे मन और शरीर आपस में मिल जाते हैं। देवी माँ के पूजन में भी इसका अत्यंत महत्व है। गणेश जी प्रथम पूज्य है। इसलिए नवरात्रि पर्व में भी गौरी गणेश पूजन सर्वप्रथम किया जाता है।

नवरात्रि व दुर्गा पूजा में स्वस्तिवाचन व गौरी गणेश पूजन मंत्रो के साथ
स्वस्तिवाचन व गणेश पूजन

स्वस्तिवाचन एवं गणेश पूजन

आसनी पर गणपति एवं दुर्गा माता की मूर्ति के सम्मुख बैठ जाएं (बिना आसन ,चलते-फिरते, पैर फैलाकर पूजन करना निषेध है। 

पूजा से पहले पात्रों को क्रम से यथास्थान रखकर पूर्व दिशा की ओर मुख करके आसन पर बैठकर तीन बार आचमन करें। (आत्म शुद्धि के लिए) 

ॐ केशवाय नम:, ॐ नारायणाय नम:, ॐ माधवाय नम:, ॐ गोविन्दाय नम:। (आचमन के पश्चात् दाहिने हाथ के अंगूठे के मूलभाग से)

ॐ विष्णवे नमः। (कहकर हाथ धोएं)

(पुनः बायें हाथ में जल लेकर दाहिने हाथ से अपने ऊपर और पूजा सामग्री पर निम्न श्लोक पढ़ते हुए छिड़कें)

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥

ॐ पुण्डरीकाक्षः पुनातु, ॐ पुण्डरीकाक्षः पुनातु ॐ पुण्डरीकाक्षः पुनातु।

आसन शुद्धि-

(नीचे लिखा मंत्र पढ़कर आसन पर जल छिड़के)
ॐ पृथ्वि! त्वया धृता लोका देवि ! त्वं विष्णुना धृता।
त्वं च  धारय  मां  देवि !  पवित्रां   कुरु  चासनम्॥

इसके पश्चात अनामिका उंगली से अपने मत्थे पर चंदन लगाते हुए यह मंत्र बोलें -

चन्दनस्य महत्पुण्यम् पवित्रं पापनाशनम्,
आपदां हरते नित्यम् लक्ष्मी तिष्ठतु सर्वदा।

संकल्प-

(संकल्प में पुष्प, फल, सुपारी, पान, चांदी   का   सिक्का, नारियल (पानी   वाला), मिठाई, मेवा, थोड़ी - थोड़ी   मात्रा   में   लेकर   संकल्प   मंत्र   बोलें)

ॐ विष्णुर्विष्णुर्विष्णु:, ॐ अद्य ब्रह्मणोऽह्नि द्वितीय परार्धे श्री श्वेतवाराहकल्पे वैवस्वतमन्वन्तरे, अष्टाविंशतितमे कलियुगे, कलिप्रथम चरणे जम्बूद्वीपे भरतखण्डे भारतवर्षे पुण्य (अपने नगर/गांव का नाम लें) क्षेत्रे बौद्धावतारे वीर विक्रमादित्यनृपते(वर्तमान संवत), तमेऽब्दे क्रोधी नाम संवत्सरे उत्तरायणे (वर्तमान) ऋतो महामंगल्यप्रदे मासानां मासोत्तमे (वर्तमान) मासे (वर्तमान) पक्षे (वर्तमान) तिथौ (वर्तमान) वासरे (गोत्र का नाम लें) गोत्रोत्पन्नोऽहं अमुकनामा (अपना नाम लें) सकलपापक्षयपूर्वकं सर्वारिष्ट शांतिनिमित्तं सर्वमंगलकामनया- श्रुतिस्मृत्योक्तफलप्राप्त्यर्थं मनेप्सित कार्य सिद्धयर्थं श्री दुर्गा पूजनं च अहं करिष्ये। तत्पूर्वागंत्वेन निर्विघ्नतापूर्वक कार्य सिद्धयर्थं यथामिलितोपचारे गणपति पूजनं करिष्ये।

(इसके बाद पुष्प से पूजा कर प्रार्थना करें)

ॐ गङ्गे च यमुने चैव गोदावरि! सरस्वति!।
नर्म्मदे! सिन्धु कावेरि! जलेऽस्मिन् सन्निधिं कुरु॥
अस्मिन् कलशे सर्वाणि तीर्थान्यावाहयामि नमस्करोमि।

कर्मपात्र का पूजन करके उसके जल से सभी पूजा वस्तुओं पर छिड़के।

घृतदीप-(ज्योति) पूजन-

(इस मंत्र से पात्र की पूजा कर ईशान दिशा में घी का दीपक जलायें। इसे अक्षत के ऊपर रखकर)

वद्दिदैवत्याय दीपपात्राय नमः
ॐ अग्निर्ज्ज्योतिज्ज्योतिरग्निः स्वाहा सूर्यो ज्ज्योतिज्ज्योतिः सूर्यः स्वाहा।
अग्निर्व्वर्च्चो ज्ज्योतिर्व्वर्च्चः स्वाहा सूर्योव्वर्चोज्ज्योतिर्व्वर्च्चः स्वाहा॥
ज्ज्योतिः सूर्य्यः सूर्य्यो ज्ज्योतिः स्वाहा।
भो दीप देवरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत्।
यावत्पूजासमाप्तिः स्यात्तावदत्र स्थिरो भव॥
ॐ भूर्भुवः स्वः दीपस्थदेवतायै नमः आवाहयामि सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि।

शंख पूजन

(शंख को चन्दन से लेपकर देवता के वायीं ओर पुष्प पर रखकर)

ॐ शंखं चन्द्रार्कदैवत्यं वरुणं चाधिदैवतम्।
पृष्ठे प्रजापतिं विद्यादग्रे गङ्गासरस्वती॥

त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया।
शंखे तिष्ठन्ति वै नित्यं तस्माच्छंखं प्रपूजयेत्॥

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे।
नमितः सर्वदेवैश्च पाञ्चजन्य! नमोऽस्तुते॥

पाञ्चजन्याय विद्महे पावमानाय धीमहि तन्नः शंखः प्रचोदयात्।
ॐ भूर्भवः स्वः शंखस्थदेवतायै नमः शंखस्थदेवतामावाहयामि सर्वोपचारार्थे गन्धपुष्पाणि समर्पयामि नमस्करोमि।(शंख मुद्रा करें)

घण्टा पूजन-

ॐ सर्ववाद्यमयीघण्टायै नमः,
आगमार्थन्तु देवानां गमनार्थन्तु रक्षसाम्।
कुरु घण्टे वरं नादं देवतास्थानसन्निधौ॥

ॐ भूर्भुवः स्वः घण्टास्थाय गरुडाय नमः
गरुडमावाहयामि सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि।

(गरुड मुद्रा दिखाकर घण्टा बजाऐं। दीपक के दाहिनी ओर स्थापित कर दें। ॐ गन्धर्वदैवत्याय धूपपात्राय नमः इस प्रकार धूपपात्र की पूजा कर स्थापना कर दें)

गणपति और गौरी जी की पूजा

(पूजा में जो वस्तु विद्यमान न हो उसके लिये 'मनसा परिकल्प्य समर्पयामि' कहे। जैसे, आभूषणो के लिये 'आभूषणं मनसा परिकल्प्य समर्पयामि।)

(हाथ में अक्षत लेकर-भगवान् गणेश का ध्यान)

गजाननं भूतगणादिसेवितं कपित्थजम्भूफलचारुभक्षणम् ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥

भगवती गौरी का ध्यान -

नमो देव्यै   महादेव्यै  शिवायै  सततं  नमः।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्॥

श्री गणेशाम्बिकाभ्यां  नमः, ध्यानं समर्पयामि।

भगवान गणेश का आवाहन-

(हाथ में अक्षत लेकर गणेश जी का आवाहन करें)

ॐ गणानां त्वा गणपतिहवामहे प्रियाणां त्वा प्रियपतिहवामहे निधीनां त्वा निधिपतिहवामहे वसो मम।
आहमजानि गर्भधमात्वमजासि गर्भधम्॥

एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष।
माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते॥

ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः,
गणपतिमावाहयामि, स्थापयामि, पूजयामि च।

(हाथ के अक्षत गणेश जी पर चढ़ा दे। हाथ के अक्षत को गणेश जी पर चढ़ा दें।)

भगवती गौरी का आवाहन

(पुनः अक्षत लेकर गणेश जी की दाहिनी ओर गौरी जी का आवाहन करें।)

ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्‍चन ।
ससस्त्यश्‍वकः सुभद्रिकां काम्पीलवासिनीम् ॥

हिमाद्रितनयां देवीं वरदां शङ्करप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः गौर्यै नमः, गौरिमावाहयामि, स्थापयामि, पूजयामि च ।

प्रतिष्ठा-

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञसमिमं दधातु ।
विश्‍वे देवास इह आदयन्ताम् ॐ प्रतिष्ठ ॥

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्‍चन ॥
गणेशाम्बिके! सुप्रतिष्ठिते वरदे भवेताम् ॥
प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः ।

(आसन के लिए अक्षत समर्पित करे)

पाद्य, अर्ध्य, आचमनीय, स्नानीय और पुनराचमनीय हेतु जल-

ॐ देवस्य त्वा सवितुः प्रसवेऽश्‍विनोर्बाहुभ्यां स्नानीय, पूष्णो हस्ताभ्याम् ॥
एतानि पाद्यार्घ्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि । गणेशाम्बिकाभ्यां नमः ।

(इतना कहकर जल चढ़ा दे)

दुग्ध स्नान-

ॐ पयः पृथ्वियां पय औषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥

कामधेनुसमुद्भूतं सर्वेषां जीवनं परमं ।
पावनं यज्ञहेतुश्‍च पयः स्नानार्थमर्पितम् ॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । पयः स्नानं समर्पयामि ।

(दूध से स्नान कराये)

दधि स्नान

ॐ दधिक्राव्णो अकारिषं जिष्णोरश्‍वस्य वाजिनः।
सुरभि नो मुखाकरत्प्राण आयूषि तारिषत्॥

पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्।
दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम्॥

ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ।
दधिस्नानं समर्पयामि ।

(दधि से स्नान कराये)

घृत स्नान

ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रियो घृतम्वस्य धाम।
अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्॥

नवनीतसमुत्पन्नं सर्वसंतोषकारकम्।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥

ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यांनमः।
घृत स्नानं समर्पयामि।

(घृत से स्नान कराये)

मधु स्नान

ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः।
माध्वीर्नः सन्त्वोषधीः॥ मधु नक्तमुतोषसो
मधुमत्पार्थिवरजः। मधु द्यौरस्तु नः पिता।

पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मधुस्नानं समर्पयामि ।

(मधु से स्नान कराये)

शर्करा स्नान

ॐ अपारसमुद्वयससूर्यै सन्तसमाहितम्।
अपारसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥

इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्।
मलापहारिकां द्विव्यां स्नानार्थं प्रतिगृह्यताम्॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः।
शर्करास्नानं समर्पयामि।
(शर्करा से स्नान कराये)

पञ्चामृत स्नान

ॐ पञ्चनद्यः सरस्वतीमपि यन्ति सस्त्रोतसः।
सरस्वती तु पञ्चधा सो देशेभवत्सरित्॥

पञ्चामृतं मयानीतं पयो दधि घृतं मधु।
शर्करया समायुक्तं स्नानर्थं प्रतिगृह्यताम्॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः।
पञ्चामृतस्नानं समर्पयामि।

(पंचामृत से स्नान कराये)

गन्धोदक स्नान -

ॐ अऽऽशुना ते अऽऽशुः पृच्यतां परुषा परुः।
गन्धस्ते सोमामवतु मदाय रसो अच्युतः॥

मलयाचलसम्भूतचन्दनेन विनिःसृतम्।
इदं गन्धोदकस्नानं कुङ्कुम्युक्तं च गृह्यताम्॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
गन्धोदकस्नानं समर्पयामि।
(गन्धोदक से स्नान कराये)

शुद्धोदक स्नान -

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्‍विनाः।
श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः॥

गङ्गा च यमुना चैव गोदावरी सरस्वती ।
नर्मदा सिन्धु कावेरी स्नानार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ।
शुद्धोदकस्नानं समर्पयामि ।

(शुद्ध जल से स्नान कराये)

आचमन
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि।
(आचमन के लिये जल दे)

वस्त्र-

ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः।
तं धीराः स कवय उन्नयन्ति स्वाध्यो३मनसा देवयन्तः।

शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्।
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः। वस्त्रं समर्पयामि।
(वस्त्र समर्पित करे)

आचमन
वस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(आचमन के लिये जल दे)

उपवस्त्र-

ॐ सुजातो ज्योतिषा सहशर्म वरूथमाऽसदत्स्वः।
वासो अग्ने विश्वरूपथसं व्ययस्व विभावसो॥

यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं (उपवस्त्राभावे रक्‍तसूत्रम् समर्पयामि ।)
(उपवस्त्र समर्पित करे)

आचमन
उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।
(आचमन के लिये जल दे)

यज्ञोपवीत

ॐ यज्ञोपवीतम् परमं पवित्रं प्रजापतेर्येत्सहजं पुरस्तात्।
आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः।

यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि।
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्।
यज्ञोपवीतं मया दत्तं गृहाण परमेश्‍वर ॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः। यज्ञोपवीतं समर्पयामि।
(यज्ञोपवीत समर्पित करें)

आचमन
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि।
(आचमन के लिये जल दे)

चन्दन

ॐ त्वां गन्धर्वा अखनॅंस्त्वामिन्द्रस्त्वां बृहस्पतिः।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत्॥

श्रीखण्डं चंदनं दिव्यं गन्धढ्यं सुमनोहरम्।
विलेपनं सुरश्रेष्ठं! चन्दनं प्रतिगृह्यताम्॥

ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः।
चन्दनानुलेपनं समर्पयामि।
(चंदन अर्पित करे)

अक्षत

ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत।
अस्तोषत स्वभानवो विप्रा नविष्ठाअ मती योजान्विन्द्र ते हरी॥

अक्षताश्‍च सुरश्रेष्ठ कुङ्कुम्‌युक्ताः सुशोभिताः।
मया निवेदिता भक्त्या गृहाण परमेश्‍वर॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि ।
(अक्षत चढ़ाये)

पुष्पमाला

ॐ औषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः।
अश्‍वा इव सजित्वरीर्वीरुधः पारयिष्णवः॥

माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाह्रतानि पुष्पाणि पूजार्थ प्रतिगृह्यताम् ॥

ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पमालां समर्पयामि ।
(पुष्पमाला समर्पित करे)

दूर्वा

ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि।
एवा नो दूर्वे प्र तनु सहस्रेण शतेन च॥

दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्।
आनीतांस्तव पूजार्थं गृहाण गणनायक॥

ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान् समर्पयामि।
(दूर्वाङ्कुर चढाये)

सिन्दूर-

ॐ सिन्धोरिव प्राध्वेन शूघनासो वातप्रमियः पतयन्ति यह्वाः।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वामान्‌॥

सिन्दूर शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।
सुभदं कामदं चैव सिन्दूर प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः। सिन्दूर समर्पयामि।
(सिन्दुर अर्पित करे)

अबीर गुलाल आदि नाना परिमल द्रव्य-

ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः।
हस्तघ्नो विश्‍वा वयुनानि विद्वान् पुमान् पुमासं परिपातु विश्‍वतः॥

अबीरं गुलालं च हरिद्रादिसमन्वितम्।
नाना परिमलं द्रव्यं गृहाण परमेश्‍वर॥

ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
नानापरिमलद्रव्याणि समर्पयामि।

(अबीर आदि चढ़ाये)

सुगन्धि द्रव्य-

सुगन्धित द्रव्य अर्पित करते समय निम्न मंत्र का उच्चारण करें।

दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम्।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगह्यताम्॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सुगन्धिद्रव्यं समर्पयामि।
(सुगन्धित द्रव्य अर्पण करे)

धूप-

ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति
तं धूर्व यं वयं धूर्वामिः ।
देवानामसि वह्नितम‌सस्नितमं पप्रितं जुष्टतमं देवहूतमम् ॥

वनस्पतिरसोद्‌भूतो गन्धाढ्यो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्।

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपमाघ्रापयामि ।
(धूप दिखाये)

दीप-

ॐ अग्निर्न्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्य स्वाहा।
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा॥
सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा॥
ज्योति सूर्यः सूर्यो ज्योतिः स्वाहा॥

साज्यं चं वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्॥

भक्त्या दीपं प्रयच्छामि देवाय परमात्मने।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तुते॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि।
(दीप दिखाये)

हस्त प्रक्षालन
‘ॐ हृषीकेशाय नमः’ कहकर हाथ धो ले।

नैवेद्य-

नैवेद्य को प्रोक्षित कर गन्ध-पुष्प से आच्छादित करे। तदनन्तर जलसे चतुष्कोण घेरा लगाकर भगवान के आगे रखे।

ॐ अमृतोपस्तरणमसि स्वाहा।
ॐ प्राणाय स्वाहा।
ॐ अपानाय स्वाहा।
ॐ समानाय स्वाहा।
ॐ उदानाय स्वाहा।
ॐ व्यानाय स्वाहा।
ॐ अमृतापिधानमसि स्वाहा।

शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्‌॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्य निवेदयामि।
(नैवेद्य निवेदित करे)

'नैवेद्यान्ते आचमनीयं जलं समर्पयामि'
(जल समर्पित करे)

ऋतुफल

ॐ याः फलिनीर्या अफला अपुष्पा याश्‍च पुष्पिणी।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वहसः॥

इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि ।
(ऋतुफल अर्पित करे)

'फलान्ते आचमनीयं जलं समर्पयामि ।
(आचमनीय जल अर्पित करे)

उत्तरापोऽशन-
'उत्तरापोऽशनार्थे जलं समर्पयामि। गणेशाम्बिकाभ्यां नमः'।
(जल अर्पित करे)

करोद्वर्तनः-

ॐ अऽऽशुना ते अऽऽशुः पृच्यतां परुषा परुः।
गन्धस्ते सोममवतु मदार रसो अच्युतः॥

चन्दनं मलयोद्भूतम् कस्तूर्यादिसमन्वितम्।
करोद्‌वर्तनकं देव गृहाण परमेश्‍वर॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, करोद्वर्तन चन्दनं समर्पयामि।
(मलय चन्दन समर्पित करे)

ताम्बूल

ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः॥

पुंगीफल महद्दिव्यं नागवल्लीदलैर्युतम।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम् एलालवंगपुंगीफलसहितं ताम्बूलं समर्पयामि।
(इलायची, लौंग-सुपारी के साथ ताम्बूल (पान) अर्पित करे)

दक्षिणा-

ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम॥

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि ।
(द्रव्य दक्षिणा समर्पित करे)

विशेषार्घ्य-

(ताम्रपात्र में जल, चन्दन, अक्षत, फल, फूल, दूर्वा और दक्षिणा रखकर अर्घ्यपात्र को हाथ में लेकर निम्नलिखित मन्त्र पढ़ें)

ॐ रक्ष रक्ष गणाध्यक्ष रक्ष त्रौलोक्यरक्षक।
भक्तानामभयं कर्ता त्राता भव भवार्णवात्॥

द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो!।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद॥

गृहाणाघ्र्यमिमं देव सर्वदेवनमस्कृतम्।
अनेन सफलार्घ्येण फलदोऽस्तु सदा मम।

आरती-

ॐ इदंऽऽहविः प्रजननं मे अस्तु मसह्वीरऽऽसर्वगणऽऽस्वस्तये।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि।

अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो असमासु धत्त्‌।
ॐ आ रात्रि पार्थिवऽऽ रजः पितुरप्रायि धामबिः।

दिवः सदाऽऽसिबृहती वितिष्ठस आ त्वेषं वर्तते तमः।
कदलीगर्मसम्भूतं कर्पूरं तु प्रदीपितम्।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव॥

ॐ भुर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, आरार्तिकं समर्पयामि ।
(कर्पूर की आरती करे, आरती के बाद जल गिरा दे।)

पुष्पांजलि-

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥

ॐ गणानां त्वा ............. ॥
ॐ अम्बे अम्बिके ........... ॥

नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्ता गृहाण परमेश्‍वर ॥

ॐ भुर्भुव स्वः गणेशाम्बिकाभ्या नमः, पुष्पाञ्जलि समर्पयामि।
(पुष्पाञ्जलि अर्पित करे)


यह भी जानें–
Next Post Previous Post