Navratri Kalash Sthapana Vidhi aur Mantra:
कलश स्थापना
कलश में रोली से स्वस्तिक का चिन्ह बनाकर गलेमें तीन धागावाली मौली लपेटे और कलश को एक ओर रख ले। कलश स्थापित किये जानेवाली भूमि अथवा पाटे पर कुङ्कुम या रोली से अष्टदल कमल बनाकर निम्न मन्त्र से भूमि का स्पर्श करे-
भूमिका स्पर्श -
ॐ भूरसि भूमिरस्त्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री ।
पृथिवी यच्छ पृथिवीं दृ हं पृथिवीं मा हि सीः ॥
धान्यप्रक्षेप -
निम्नलिखित मन्त्र पढ़कर पूजित भूमिपर सप्तधान्य अथवा गेहूँ, चावल या जौ रख दे -
ॐ धान्यमसि धिनुहि देवान् प्राणाय त्वो दानाय त्वा व्यानाय त्वा।
दीर्घामनु प्रसितिमायुषे धां देवो वः सविता हिरण्यपाणिः प्रति गृभ्णात्वच्छिद्रेण पाणिना चक्षुषे त्वा महीनां पयोऽसि ॥
इस धान्य पर निम्नलिखित मन्त्र पढ़कर कलश की स्थापना करें।
कलश स्थापन -
ॐ आ जिघ्र कलशं मह्या त्वा विशन्त्विन्दवः।
पुनरूर्जा नि वर्तस्व सा नः सहस्त्रं धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयिः ॥
कलश में जल -
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनी स्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमा सीद ॥
(इस मन्त्र से जल छोड़े)
कलश में चन्दन -
ॐ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान् यक्ष्मादमुच्यत ॥
(चन्दन छोड़े)
कलश में सर्वौषधि -
ॐ या ओषधीः पुर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
मनै नु ब्रभूणामह शतं धामानि सप्त च ॥
(सर्वौषदि छोड़ दे)
कलश में दूब -
ॐ काण्डात्काण्डात्प्ररोहन्ती पर्हः परुषसप्रि ।
एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥
(दूब छोड़े)
कलश पर पञ्चपल्लव -
ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥
(पञ्चपल्लव रख दे)
कलश में पवित्री -
ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः।
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम्॥
(कुश छोड़ दे)
कलश में सप्तमृत्तिका -
ॐ स्योना पृथिवि नो भवानृक्षरा निवेशनी।
यच्छा नः शर्म सप्रथाः।
(सप्तमृत्तिका छोड़े)
कलश में सुपारी -
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः॥
(सुपारी छोड़े)
कलश में पञ्चरत्न -
ॐ परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत्।
दधद्रत्नानि दाशुषे।
(पञ्चरत्न छोड़े)
कलश में द्रव्य -
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम॥
(द्रव्य छोड़े)
कलश पर वस्त्र –
निम्नलिखित मन्त्र पढ़कर कलशको वस्त्रसे अलंकृत करे-
ॐ सुजातो ज्योतिषा सह शर्म वरूथमाऽसदत्स्वः।
वासो अग्ने विश्वरूप सं व्ययस्व विभावसो॥
कलश पर पूर्णपात्र -
ॐ पूर्णा दर्वि परा पत सुपूर्णा पुनरा पत।
वस्नेव विक्रीणावहा इषमूर्ज शतक्रतो॥
चावल से भरे पूर्णपात्र को कलश पर स्थापित करे और उस पर लाल कपड़ा लपेटे हुए नारियल को निम्न मन्त्र पढ़कर रखे।
कलश पर नारियल -
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हसः ॥
अब कलश में देवि-देवताओं का आवाहन करना चाहिये। सबसे पहले हाथ में अक्षत और पुष्प लेकर निम्नलिकित मन्त्र से वरुण का आवाहन करे-
कलश में वरुण का ध्यान और आवाहन
ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः।
अहेडमानो वरुणेह बोध्युरुश स मा न आयुः प्र मोषीः॥
अस्मिन् कलशे वरुणं साङ्गः सपरिवारं सायुधं सशक्तिकमावाहयामि।
ॐ भूर्भुवः स्व भो वरुण।
इहागच्छ, इह तिष्ठ, स्थापयामि, पूजयामि, मम पूजां गृहाण।
'ॐ अपां पतये वरुणाय नमः'
कहकर अक्षत-पुष्प कलशपर छोड़ दे।
कलश में देवी-देवताओं का आवाहन-
फिर हाथमें अक्षत-पुष्प लेकर चारों वेद एवं अन्य देवी-देवताओंका आवाहन करे-
कलशस्य मुखे विष्णुः कण्ठे रुदः समाश्रितः ।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥
अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः ।
अत्र गायत्री सावित्री शान्तिः पुष्टिकरी तथा ॥
आयान्तु देवपूजार्थे दुरितक्षयकारकाः ।
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् संनिधिं कुरु ॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु मम शान्त्यर्थं दुरितक्षयकारकाः ॥
इस तरह जलाधिपति वरुण देव तथा वेदों, तीर्थों, नदों, नदियों, सागरों, देवियों एवं देवताओं के आवाहन के बाद हाथ में अक्शत-पुष्प लेकर निम्नलिखित मन्त्र से कलश की प्रतिष्ठापना करें।
प्रतिष्ठापना -
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ समिमं दधातु।
विश्वे देवास इह मादयन्तामो३म्प्रतिष्ठ॥
कलशे वरुनाद्यावाहितदेवताः सुप्रतिष्ठिता वरदा भवन्तु।
ॐ वरुणाद्यावाहितदेवताभ्यो नमः।
यह कहकर अक्षत-पुष्प कलश के पास छोड़ दे।
ध्यान -
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, ध्यानार्थे पुष्पं समर्पयामि ।
(पुष्प समर्पित करे)
आसन -
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, आसनार्थे अक्षतान् समर्पयामि ।
(अक्षत रखे)
पाद्य –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, पादयोः पाद्यं समर्पयामि ।
(जल चढ़ाये)
अर्घ्य –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, हस्तयोरर्घ्यं समर्पयामि ।
(जल चढ़ाये)
स्नानीय जल –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, स्नानीयं जलं समर्पयामि ।
(स्नानीय जल चढ़ाये)
स्नानाङ्ग आचमन –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, स्नानान्ते आचमनीयं जलं समर्पयामि।
(आचमनीय जल चढ़ाये)
पञ्चामृतस्नान –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, पञ्चामृतस्नानं समर्पयामि ।
(पञ्चामृत से स्नान कराये)
गन्धोदक स्नान –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, गन्धोदकस्नानं समर्पयामि ।
(जल में मलयचन्दन मिलाकर स्नान कराये)
शुद्धोदक स्नान –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, स्नानान्ते शुद्धोदकस्नानं समर्पयामि ।
(शुद्ध जलसे स्नान कराये)
आचमन –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
(आचमन के लिये जल चढ़ाये)
वस्त्र –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, वस्त्रं समर्पयामि ।
(वस्त्र चढ़ाये)
आचमन –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, वस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(आचमन के लिये जल चढ़ाये)
यज्ञोपवीत –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, यज्ञोपवीतं समर्पयामि।
(यज्ञोपवीत चढ़ाये)
आचमन –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।
(आचमन के लिये जल चढ़ाये)
उपवस्त्र –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, उपवस्त्रं (उपवस्त्रार्थे रक्तसूत्रम् ) समर्पयामि ।
(उपवस्त्र चढ़ाये)
आचमन –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।
(आचमन के लिये जल चढ़ाये)
चन्दन –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, चन्दनं समर्पयामि ।
(चन्दन लगाये)
अक्षत –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, अक्षतान् समर्पयामि ।
(अक्षत समर्पित करे)
पुष्प –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, पुष्पं समर्पयामि ।
(पुष्प चढ़ाये)
नाना परिमल द्रव्य –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, नानापरिमलद्रव्याणि समर्पयामि ।
(विविध परिमल द्रव्य समर्पित करे)
सुगन्धित द्रव्य –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, सुगन्धितद्रव्यं समर्पयामि ।
(सुगन्धित द्रव्य (इत्र आदि) चढ़ाये)
धूप –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, धूपमाघ्रापयामि ।
(धूप आघ्रापित कराये)
दीप –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, दीपं दर्शयामि ।
(दीप दिखाकर हाथ धो ले)
नैवेद्य –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, सर्वविधं नैवेद्यं निवेदयामि ।
(नैवेद्य निवेदित करे)
आचमन आदि –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, आचमनीयं जलं, मध्ये पानीयं जलम, उत्तरापोऽशने, मुखप्रक्षालनार्थे, हस्तप्रक्षालनार्थे च जलं समर्पयामि ।
(आचमनीयं एवं पानीय तथा मुख और हस्त प्रक्षालनके लिए जल चढ़ाये)
करोद्वर्तन –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, करोद्वर्तनं समर्पयामि ।
(करोद्वर्तन के लिये गन्ध समर्पित करे)
ताम्बूल –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, ताम्बूलं समर्पयामि ।
(सुपारी, इलायची, लौंग सहित पान चढ़ाये)
दक्षिणा –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, कृतायाः पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि ।
(द्रव्य-दक्षिणा चढ़ाये)
आरती –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, आरार्तिकं समर्पयामि ।
(आरती करे।)
पुष्पाञ्जलि –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि ।
(पुष्पाञ्जलि समर्पित करे।)
प्रदक्षिणा –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, प्रदक्षिणां समर्पयामि ।
(प्रदक्षिणा करे।)
अनामिका से कलश का स्पर्श कर प्रार्थना करें -
ॐ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले त्वस्य स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥
कुक्षौ तु सागराः सप्त सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः॥
अंगैश्च सहिताः सर्वे कलशन्तु समाश्रिताः।
अत्रा गायत्री सावित्री शान्तिः पुष्टिकरी तथा।
आयान्तु यजमानस्य दुरितक्षयकारकाः॥
ततः गायत्रयादिभ्यो नमः इस मंत्र से पञ्चोपचार पूजन करें।
अधोलिखित श्लोक पढ़ते हुए कलश को प्रणाम करें -
(हाथमें पुष्प लेकर इस प्रकार प्रार्थना करे)
देवदानवसंवादे मथ्यमाने महोदधौ।
उत्पन्नोऽसि तदा कुम्भ विधृतो विष्णुना स्वयम्॥
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः॥
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः।
आदित्या वसवो रुद्रा विश्वेदेवाः सपैतृकाः॥
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः।
त्वत्प्रसादादिमां पूजां कर्तुमीहे जलोद्भव।
सांनिध्य कुरु मे देव प्रसन्नो भव सर्वदा॥
नमो नमस्ते स्फटिकप्रभाय सुश्वेतहाराय सुमङ्गलाय।
सुपाशहस्ताय झषासनाय जलाधिनाथाय नमो नमस्ते ॥
'ॐ अपां पतये वरुणाय नमः।
नमस्कार –
ॐ वरुणाद्यावाहितदेवताभ्यो नमः, प्रार्थनापूर्वकं नमस्कारान् समर्पयामि ।
(इस नाम-मन्त्र से नमस्कारपूर्वक पुष्प समर्पित करे।)
(अब हाथमें जल लेकर निम्नलिखित वाक्यका उच्चारण कर जल कलशके पास छोड़ते हुए समस्त पूजन-कर्म भगवान् वरुणदेवको निवेदित करे)
समर्पण –
कृतेन अनेन पूजनेन कलशे वरुणाद्यावाहितदेवताः प्रीयन्तां न मम ।

