श्री दुर्गा पञ्जरस्तोत्रम् | Shri Durga Panjar Stotram


Shri Durga Panjar Stotram:

HD image of Shri Durga Panjar Stotram Lyrics in Hindi
Shri Durga Panjar Stotram

श्री दुर्गा पञ्जर स्तोत्रम्

विनियोगः-

ॐ अस्य श्रीदुर्गा पञ्जरस्तोत्रस्य सूर्य ऋषिः, त्रिष्टुप्छन्दः,
छाया देवता, श्रीदुर्गा पञ्जरस्तोत्र पाठे विनियोगः ।

ध्यानम्

ॐ हेम प्रख्यामिन्दु खण्डात्तमौलिं शङ्खाभीष्टा भीति हस्तां त्रिनेत्राम् ।
हेमाब्जस्थां पीन वस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ।
अपराध शतं कृत्वा जगदम्बेति चोच्चरेत् ।
यां गतिं समवाप्नोति नतां ब्रह्मादयः सुराः ।
सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ॥ १॥

मार्कण्डेय उवाच -

दुर्गे दुर्गप्रदेशेषु दुर्वाररिपुमर्दिनी ।
मर्दयित्री रिपुश्रीणां रक्षां कुरु नमोऽस्तुते ॥ १॥

पथि देवालये दुर्गे अरण्ये पर्वते जले ।
सर्वत्रोऽपगते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ २॥

दुःस्वप्ने दर्शने घोरे घोरे निष्पन्न बन्धने ।
महोत्पाते च नरके दुर्गेरक्ष नमोऽस्तुते ॥ ३॥

व्याघ्रोरग वराहानि निर्हादिजन सङ्कटे ।
ब्रह्मा विष्णु स्तुते दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ४॥

खेचरा मातरः सर्वं भूचराश्चा तिरोहिताः ।
ये त्वां समाश्रिता स्तांस्त्वं दुर्गे रक्ष नमोऽस्तुते ॥ ५॥

कंसासुर पुरे घोरे कृष्ण रक्षणकारिणी ।
रक्ष रक्ष सदा दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ६॥

अनिरुद्धस्य रुद्धस्य दुर्गे बाणपुरे पुरा ।
वरदे त्वं महाघोरे दुर्गे रक्ष नमोऽस्तुते ॥ ७॥

देव द्वारे नदी तीरे राजद्वारे च सङ्कटे ।
पर्वता रोहणे दुर्गे दुर्गे रक्ष नमोऽस्तुते ॥ ८॥

दुर्गा पञ्जर मेतत्तु दुर्गा सार समाहितम् ।
पठनस्तारयेद् दुर्गा नात्र कार्या विचारण ॥ ९॥

रुद्रबाला महादेवी क्षमा च परमेश्वरी ।
अनन्ता विजया नित्या मातस्त्वमपराजिता ॥ १०॥

॥ इति श्री मार्कण्डेयपुराणे देवीमहात्म्ये रुद्रयामले देव्याः पञ्जरस्तोत्रम् ॥


यह भी जानें–
Next Post Previous Post