श्री गायत्री स्तोत्रम् | Shri Gayatri Stotram


Shri Gayatri Stotram Lyrics and PDF

HD image of Shri Gayatri Stotram Lyrics in sanskrit with PDF and Video

श्री गायत्री स्तोत्रम्

॥ श्री नारायण उवाच ॥

आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि ।
सर्वत्र व्यापिकेऽनन्ते श्रीसंध्ये ते नमोऽस्तु ते ॥ १ ॥

त्वमेव संध्या गायत्री सावित्री च सरस्वती ।
ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥ २ ॥

प्रातर्बाला च मध्याह्ने यौवनस्था भवेत् पुनः ।
ब्रह्मा सायं भगवती चिंत्यते मुनिभिः सदा ॥ ३ ॥

हंसस्था गरुडारुढा तथा वृषभवाहिनी ।
ऋग्वेदाध्यायिनी भूमौ ६श्यते या तपस्विभिः ॥ ४ ॥

यजुर्वेदं पठंती च अन्तरिक्षे विराजते ।
सा साममपि सर्वेषु भ्राम्यमाणा तथा भुवि ॥ ५ ॥

रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी ।
त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥ ६ ॥

सप्तर्षिप्रीतिजननी माया बहुवरप्रदा ।
शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥ ७ ॥

आनन्दजननी दुर्गा दशधा परिपठ्यते ।
वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी ॥ ८ ॥

गरिष्ठा च वरार्हा च वरारोहा च सप्तमी ।
नीलगङ्गा तथा संध्या सर्वदा भोगमोक्षदा ॥ ९ ॥

भागीरथी मर्त्यलोके पाताले भोगवत्यपि ।
त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥ १० ॥

भूर्लोकस्था त्वमेवासि धरित्री लोकधारिणी ।
भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥ ११ ॥

महर्लोके महासिद्धिर्जनलोके जनेत्यपि ।
तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥ १२ ॥

कमला विष्णुलोके च गायत्री ब्रह्मलोकदा ।
रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी ॥ १३ ॥

अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे ।
साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥ १४ ॥

ततः परा पराशक्तिः परमा त्वं हि गीयसे ।
इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिता ॥ १५ ॥

गंगा च यमुना चैव विपाशा च सरस्वती ।
सरयूर्देविका सिन्धुर्नर्मदैरावती तथा ॥ १६ ॥

गोदावरी शतद्रुश्च कावेरी देवलोकगा ।
कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥ १७ ॥

गण्डकी तापिनी तोया गोमती वेत्रवत्यपि ।
इडा च पिंगला चैव सुषुम्णा च तृतीयका ॥ १८ ॥

गांधारी हस्तिजिह्वा च पूषाऽपूषा तथैव च ।
अलम्बुषा कुहूश्चैव शंखिनी प्राणवाहिनी ॥ १९ ॥

नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः ।
हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥ २० ॥

तालुस्था त्वं सदाधारा बिंदुस्था बिंदुमालिनी ।
मूले तु कुण्डलीशक्तिर्व्यापिनी केशमूलगा ॥ २१ ॥

शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी ।
किमन्यद् बहुनोक्तेन यत्किंचिज्जगतीत्रये ॥ २२ ॥

तत्सर्व त्वं महादेवि श्रिये संध्ये नमोस्तु ते ।
इतीदं कीर्तितं स्तोत्रं संध्यायां बहुपुण्यदम् ॥ २३ ॥

महापापप्रशमनं महासिद्धिविधायकम् ।
य इदं कीर्तयेत्स्तोत्रं संध्याकाले समाहितः ॥ २४ ॥

अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् ।
सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥ २५ ॥

भोगान्भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् ।
तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥ २६ ॥

यत्र कुत्र जले मग्नः संध्यामज्जनजं फलम् ।
लभते नात्र संदेहः सत्यं सत्यं च नारद ॥ २७ ॥

शृणुयाद् योऽपि तद्भक्त्या स तु पापात्प्रमुच्यते ।
पियूषसद्दशं वाक्यं संप्रोक्त्तं नारदेरितम् ॥ २८ ॥

॥ इति श्री गायत्री स्तोत्रम् सम्पुर्णम् ॥


यह भी जानें–
Next Post Previous Post