श्री गायत्री कवचम् – रुद्रयामलान्तर्गतम् | Shri Gayatri Kavacham (Rudrayamal)


Shri Gayatri Kavacham (Rudrayamal) Lyrics in Sanskrit:

Shri Gayatri Kavacham (Rudrayamal) Lyrics in Sanskrit

गायत्री कवचम् – रुद्रयामलान्तर्गतम्

॥ श्रीगणेशाय नमः ॥

श्रीपार्वत्युवाच
देवदेव महादेव संसारार्णवतारकम् ।
गायत्रीकवचं देव कृपया कथय प्रभो ॥ १॥

श्रीमहादेव उवाच
मूलाधारे स्थिता नित्यं कुण्डली तत्त्वरूपिणी ।
सूक्ष्मातिसूक्ष्मपरमा बिसतन्तुस्वरूपिणी ॥ २॥

विद्युत्पुञ्जप्रतीकाशा कुण्डली श्रुतिसर्पिणी ।
परस्य ब्रह्मग्रहणी पञ्चाशद्वर्णरूपिणी ॥ ३॥

शिवस्य नर्तकी नित्या परब्रह्मप्रपूजिता ।
ब्राह्मणस्यैव गायत्री चिदानन्दस्वरूपिणी ॥ ४॥

ब्रह्मण्यवर्त्मवातेयं प्राणात्मा नित्यनूतनात् ।
नित्यं तिष्ठति सानन्दा कुण्डली तव विग्रहे ॥ ५॥

अतिगोप्यं महत्पुण्यं त्रिकोटीतीर्थसंयुतम् ।
सर्वज्ञानमयी देवी सर्वदानमयी सदा ॥ ६॥

सर्वसिद्धिमयी देवी पार्वती प्राणवल्लभा ।

ॐ ॐ ॐ ॐ भूः ॐ ॐ भुवः ॐ ॐ स्वः ॐ ॐ त ॐ ॐ त्स ॐ ॐ वि ॐ ॐ तु ॐ ॐ व ॐ ॐ रे ॐ ॐ ण्यं ॐ ॐ भ ॐ ॐ र्गो ॐ ॐ दे ॐ ॐ व ॐ ॐ स्य ॐ ॐ धी ॐ ॐ म ॐ ॐ हि ॐ ॐ धि ॐ ॐ यो ॐ ॐ यो ॐ ॐ नः ॐ ॐ प्र ॐ ॐ चो ॐ ॐ द ॐ ॐ यात् ॐ म् । ॐ भूः ॐ

पातु मे मूलं चतुर्दलसमन्वितम् ।
ॐ भुवः ॐ पातु मे लिङ्गं सजलं षड्दलात्मकम् ॥ ७॥

ओं स्वः ॐ पातु मे कण्ठं सकाशां दलषोडशम् ।
ॐ  त ॐ  पातु मे रूपं ब्रह्माणं कारणं परम् ॥ ८॥

ॐ त्स ॐ पातु मे ब्रह्माणं पातु सदा मम ।
ॐ वि ॐ पातु मे गन्धं सदा शिशिरसंयुतम् ॥ ९॥

ॐ तु ॐ पातु मे स्पर्शं शरीरस्य च कारणम् ।
ॐ र्व ॐ पातु मे शब्दं शब्दविग्रहकारणम् ॥ १०॥

ॐ रे ॐ पातु मे नित्यं सदा तत्त्वशरीरकम् ।
ॐ ण्यं ॐ पातु मे ह्यक्षं सर्वतत्त्वैककारणम् ॥ ११॥

ओं भ ॐ पातु मे श्रोत्रं श्रवणस्य च कारणम् ।
ॐ र्गो ॐ पातु मे घ्राणं गन्धोपादानकारणम् ॥ १२॥

ॐ दे ॐ पातु मे वास्यं सभायां शब्दरूपिणी ।
ॐ व ॐ पातु मे बाहुयुगलं ब्रह्मक्रारणम् ॥ १३॥

ॐ स्य ॐ पातु मे लिङ्गं षड्दलं षड्दलैर्युरतम् ।
ॐ धी ॐ पातु मे नित्यं प्रकृतिं शब्दकारणम् ॥ १४॥

ॐ म ओं पातु मे नित्यं मनोब्रह्मस्वरूपिणम् ।
ॐ हि ॐ पातु मे बुद्धिं परब्रह्ममयं सदा ॥ १५॥

ॐ धिय ॐ पातु मे नित्यमहङ्कारं यथा तथा ।
ॐ यो ॐ पातु मे नित्यं जलं सर्वत्र सर्वदा ।
ॐ नः ॐ पातु मे नित्यं तेजःपुञ्जो यथा तथा ॥ १६॥

ॐ प्र ॐ पातु मे नित्यमनिलं कार्यकारणम् ।
ॐ चो ॐ पातु मे नित्यमाकाशं शिवसन्निभम् ॥ १७॥

ॐ द ॐ पातु मे जिह्वां जपयज्ञस्य कारणम् ।
ॐ यात् ॐ मे नित्यं शिवज्ञानमयं सदा ॥ १८॥

तत्त्वानि पातु मे नित्यं गायत्री परदैवतम् ।
कृष्णा मे सततं पातु ब्रह्माणी भूर्भुवःस्वरोम् ॥ १९॥

ॐ अस्य श्रीगायत्रीकवचस्य परब्रह्म ऋषिः ऋग्यजुःसामाथर्वाणश्छन्दांसि, ब्रह्मा देवता, धर्मार्थकाममोक्षार्थं जपे विनियोगः ॥

ॐ भूर्भुवःस्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ।

कामक्रोधादिकं सर्वं स्मरणाद्याति दूरतः ।
इदं कवचमज्ञात्वा ब्रह्मविद्यां जपेद्यदि ॥ २०॥

शतकोटिजपेनापि न सिद्धिर्जायते प्रिये ।
गायत्रीकवचात्सर्वं स्मरणात्सिध्यति ध्रुवम् ॥ २१॥

पठित्वा कवचं विप्रो गायत्रीं सकृदुच्चरेत् ।
सर्वपापविनिर्मुक्तो जीवन्मुक्तो भवेद्विजः ॥ २२॥

इदं कवचमज्ञात्वा त्वन्यद्यः कवचं पठेत् ।
सर्वं तस्य वृथा देवि त्रैलोक्यमङ्गलादिकम् ॥ २३॥

गायत्री कवचं यस्य जिह्वायां विद्यते सदा ।
तदाऽमृतमयी जिह्वा पवित्रा जपपूजने ॥ २४॥

इदं कवचमज्ञात्वा ब्रह्मविद्यां जपेद्यदि ।
व्यर्थं भवति चार्वङ्गि तज्जपो वनरोदनम् ॥ २५॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
महान्ति पातकान्यस्य स्मरणाद्यान्ति दूरतः ॥ २६॥

नश्वरं मांसमेदोऽस्थिमज्जाशुक्रविनिर्मितम् ॥ २७॥

वातपित्तकफैर्युक्तं स्थूलदेहं तदुच्यते ।
सूक्ष्मं ज्योतिर्मयं देहं पञ्चभूतात्मकं विदुः ॥ २८॥

महापद्मवनान्तस्थं सर्वावयवसंयुतम् ।
आधारदेहसम्बन्धाद्गायत्री ब्रह्मणः स्वयम् ॥ २९॥

एतदेव परं ब्रह्म कथिते उभयात्मके ।
ब्राह्मणस्यैव जीवात्मा गायत्रीसहितो वपुः ॥ ३०॥

आत्मनां हृदयाम्भोजे प्रदीपकलिकोपमम् ।
निर्धूमं च यथा ज्योतिस्तैलाग्निवर्तियोगतः ॥ ३१॥

तज्ज्योतिः परमं ब्रह्म शुभदं नात्र संशयः ।
गायत्रीकवचं न्यासं मातृकास्थानसन्धिषु ॥ ३२॥

स कृत्वा ब्राह्मणश्रेष्ठ चान्यन्यासं समाचरेत् ।
अन्यन्यासे तथा सिद्धिरन्यथायाऽरण्यरोदनम् ॥ ३३॥

गायत्रीन्यासमात्रेण परब्रह्ममयो द्विजः ।
इदं कवचमज्ञात्वा ब्रह्मचर्यं करोति यः ॥ ३४॥

ब्रह्मचर्यं भवेद्व्यर्थं गायत्रीकवचं विना ।
कवचस्य प्रसादेन ब्राह्मणो ज्वलदग्निवत् ॥ ३५॥

कवचं परमेशानि सृष्टिस्थितिलयात्मकम् ।
कवचं ब्राह्मण इदं प्रातरुत्थाय यः पठेत् ॥ ३६॥

गायत्रीं स सकृत्स्मृत्वा जपलक्षफलं भवेत् ।
गायत्रीं दशधा जप्त्वा दशलक्षफलं भवेत् ॥ ३७॥

एवं क्रमेण गायत्रीं शतधा प्रजपेद्यदि ।
शतलक्षफलं प्राप्य विहरेद्देववद्भुवि ॥ ३८ ॥

सूर्येन्दोर्ग्रहणे चेदं पठित्वा कवचं द्विजः ।
सकृद्यदि जपेद्विद्यां गायत्रीं परमाक्षराम् ॥ ३९॥

तत्क्षणात्तु भवेत्सिद्धो ब्रह्मसायुज्यमाप्नुयात् ।
इदं कवक्षमज्ञात्वा गायत्रीं प्रजपेत्तु यः ॥ ४०॥

जप एव वृथा तस्य निस्तेजो न च सिद्धिदः ।
यः पठेत्कवचं देवि सततं शिवसन्निधौ ॥ ४१॥

विष्णुदेवस्य कवचं प्रजपेच्छक्तिसन्निधौ ।
तेजःपुञ्चमयो विप्रस्तत्क्षणाज्जायते ध्रुवम् ॥ ४२॥

॥ इति श्रीरुद्रयामले पार्वतीश्वरसंवादे गायत्रीकवचं सम्पूर्णम् ॥


यह भी जानें–
Next Post Previous Post