श्री गायत्री कवचम् - वसिष्ठसंहितायाम् (Complete Gayatri Kavach)


Complete Gayatri Kavach of Vasishth Sanhita

Complete Gayatri Kavach of Vasishth Sanhita

गायत्रीकवचम् - वसिष्ठसंहितायाम्

॥ श्री गणेशाय नमः ॥

याज्ञवल्क्य उवाच
स्वामिन् सर्वजगन्नाथ संशयोऽस्ति महान्मम ।
चतुःषष्ठिकलानं च पातकानां च तद्वद ॥ १॥

मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् ।
देहं च देवतारूपं मन्त्ररूपं विशेषतः ॥ २॥

ब्रह्मोवाच
क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् ।
गायत्र्याः कवचस्यास्य ब्रह्मा विष्णुः शिवो ऋषिः ॥ ३॥

ऋग्यजुःसामाथर्वाणि छन्दांसि परिकीर्तिताः ।
परब्रह्मस्वरूपा सा गायत्री देवता स्मृता ॥ ४॥

रक्षाहीनं तु यत्स्थानं कवचेन विना कृतम् ।
सर्वं सर्वत्र संरक्षेत्सर्वाङ्गं भुवनेश्वरी ॥ ५॥

बीजं भर्गश्च युक्तिश्च धियः कीलकमेव च ।
पुरुषार्थविनियोगो यो नश्च परिकीर्त्तितः ॥ ६॥

ऋषिं मूर्ध्नि न्यसेत्पूर्वं मुखे छन्द उदीरितम् ।
देवतां हृदि विन्यस्य गुह्ये बीजं नियोजयेत् ॥ ७॥

शक्तिं विन्यस्य पदयोर्नाभौ तु कीलकं न्यसेत् ।
द्वात्रिंशत्तु महाविद्याः साङ्ख्यायनसगोत्रजाः ॥ ८॥

द्वादशलक्षसंयुक्ता विनियोगाः पृथक्पृथक् ।
एवं न्यासविधिं कृत्वा कराङ्गं विधिपूर्वकम् ॥ ९॥

व्याहृतित्रयमुच्चार्य ह्यनुलोमविलोमतः ।
चतुरक्षरसंयुक्तं कराङ्गन्यासमाचरेत् ॥ १०॥

आवाहनादिभेदं च दश मुद्राः प्रदर्शयेत् ।
सा पातु वरदा देवी अङ्गप्रत्यङ्गसङ्गमे ॥ ११॥

ध्यानं मुद्रां नमस्कारं गुरुमन्त्रं तथैव च ।
संयोगमात्मसिद्धिं च षड्विधं किं विचारयेत् ॥ १२॥

अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः, ऋग्यजुःसामाधर्वाणि छन्दांसि, परब्रह्मस्वरूपिणी गायत्री देवता, भूर्बीजं, भुवः शक्तिः, स्वाहा कीलकं, श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः ॥

ॐ भूर्भुवः स्वः तत्सवितुरिति हृदयाय नमः ।
ॐ भूर्भुवः स्वः वरेण्यमिति शिरसे स्वाहा ।
ॐ भूर्भुवः स्वः भर्गो देवस्येति शिखायै वषट् ।
ॐ भूर्भुवः स्वः धीमहीति कवचाय हुम् ।
ॐ भूर्भुवः स्वः धियो यो नः इति नेत्रत्रयाय वौषट् ।
ॐ भूर्भुवः स्वः प्रचोदयादिति अस्त्राय फट् ॥

वर्णास्त्रां कुण्डिकाहस्तां शुद्धनिर्मलज्योतिषीम्म् ।
सर्वतत्त्वमयीं वन्दे गायत्रीं वेदमातरम् ॥ १३॥

अथ ध्यानम्

मुक्ता विद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै-
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशां शूलं कपालं गुणं
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १४॥

ॐ गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ।
ब्रह्मविद्या च मे पश्चादुत्तरे मां सरस्वती ॥ १५॥

पावकी मे दिशं रक्षेत्पावकोज्ज्वलशालिनी ।
यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी ॥ १६॥

पावमानीं दिशं रक्षेत्पवमानविलासिनी ।
दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी ॥ १७॥

ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेत् सर्वतो भुवनेश्वरी ॥ १८॥

ब्रह्मास्त्रस्मरणादेव वाचां सिद्धिः प्रजायते ।
ब्रह्मदण्डश्च मे पातु सर्वशस्त्रास्त्रभक्षक्रः ॥ १९॥

ब्रह्मशीर्षस्तथा पातु शत्रूणां वधकारकः ।
सप्त व्याहृतयः पान्तु सर्वदा बिन्दुसंयुताः ॥ २०॥

वेदमाता च मां पातु सरहस्या सदैवता ।
देवीसूक्तं सदा पातु सहस्राक्षरदेवता ॥ २१॥

चतुःषष्टिकला विद्या दिव्याद्या पातु देवता ।
बीजशक्तिश्च मे पातु पातु विक्रमदेवता ॥ २२॥

तत्पदं पातु मे पादौ जङ्घे मे सवितुःपदम् ।
वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च ॥ २३॥

देवस्य मे तु हृदयं धीमहीति गलं तथा ।
धियो मे पातु जिह्वायां यःपदं पातु लोचने ॥ २४॥

ललाटे नः पदं पातु मूर्धानं मे प्रचोदयात् ।
तद्वर्णः पातु मूर्धानं सकारः पातु भालकम् ॥ २५॥

चक्षुषी मे विकारस्तु श्रोत्रं रक्षेत्तु कारकः ।
नासापुटेर्वकारो मे रेकारस्तु कपोलयोः ॥ २६॥

णिकारस्त्वधरोष्ठे च यकारस्तूर्ध्व ओष्ठके ।
आत्यमध्ये भकारस्तु गोकारस्तु कपोलयोः ॥ २७॥

देकारः कण्ठदेशे च वकारः स्कन्धदेशयोः ।
स्यकारो दक्षिणं हस्तं धीकारो वामहस्तकम् ॥ २८॥

मकारो हृदयं रक्षेद्धिकारो जठरं तथा ।
धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम् ॥ २९॥

गुह्यं रक्षतु योकार ऊरू मे नः पदाक्षरम् ।
प्रकारो जानुनी रक्षेच्चोकारो जङ्घदेशयोः ॥ ३०॥

दकारो गुल्भदेशं तु यात्कारः पादयुग्मकम् ।
जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा ॥ ३१॥

सर्वतः सर्वदा पातु आपोज्योतीति षोडशी ।
इदं तु कवचं दिव्यं बाधाशतविनाशकम् ॥ ३२॥

चतुःषष्ठिकलाविद्यासकलैश्वर्यसिद्धिदम् ।
जपारम्भे च हृदयं जपान्ते कवचं पठेत् ॥ ३३॥

स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः ।
मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ॥ ३४॥

पुष्पाञ्जलिं च गायत्र्या मूलेनैव पठेत्सकृत् ।
शतसाहस्रवर्षाणां पूजायाः फलमाप्नुयात् ॥ ३५॥

भूर्जपत्रे लिखित्वैतत् स्वकण्ठे धारयेद्यदि ।
शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्बुधः ॥ ३६॥

त्रैलोक्यं क्षोभयेत्सर्वं त्रैलोक्यं दहति क्षणात् ।
पुत्रवान् धनवान् श्रीमान्नानाविद्यानिधिर्भवेत् ॥ ३७॥

ब्रह्मास्त्रादीनि सर्वाणि तदङ्गस्पर्शनात्ततः ।
भवन्ति तस्य तुच्छनि किमन्यत्कथयामि ते ॥ ३८॥

अभिमन्त्रितगायत्रीकवचं मानसं पठेत् ।
तज्जलं पिबतो नित्यं पुरश्चर्याफलं भवेत् ॥ ३९॥

लघुसामान्यकं मन्त्रं, महामन्त्रं तथैव च ।
यो वेत्ति धारणां युञ्जन्, जीवन्मुक्तः स उच्यते ॥ ४०॥

सप्ताव्याहृतिविप्रेन्द्र सप्तावस्थाः प्रकीर्तिताः ।
सप्तजीवशता नित्यं व्याहृती अग्निरूपिणी ॥ ४१॥

प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
सर्वेषामेव पापानां सङ्करे समुपस्थिते ॥ ४२॥

शतं सहस्रमभ्यर्च्य गायत्री पावनं महत् ।
दशशतमष्टोत्तरशतं गायत्री पावनं महत् ॥ ४३॥

भक्तियुक्तो भवेद्विप्रः सन्ध्याकर्म समाचरेत् ।
काले काले प्रकर्तव्यं सिद्धिर्भवति नान्यथा ॥ ४४॥

प्रणवं पूर्वमुद्धृत्य भूर्भुवस्वस्तथैव च ।
तुर्यं सहैव गयत्रीजप एवमुदाहृतम् ॥ ४५॥

तुरीयपादमुत्सृज्य गायत्रीं च जपेद्द्विजः ।
स मूढो नरकं याति कालसूत्रमधोगतिः ॥ ४६॥

मन्त्रादौ जननं प्रोक्तं मत्रान्ते मृतसूत्रकम् ।
उभयोर्दोषनिर्मुक्तं गायत्री सफला भवेत् ॥ ४७॥

मत्रादौ पाशबीजं च मन्त्रान्ते कुशबीजकम् ।
मन्त्रमध्ये तु या माया गायत्री सफला भवेत् ॥ ४८॥

वाचिकस्त्वहमेव स्यादुपांशु शतमुच्यते ।
सहस्रं मानसं प्रोक्तं त्रिविधं जपलक्षणम् ॥ ४९॥

अक्षमालां च मुद्रां च गुरोरपि न दर्शयेत् ।
जपं चाक्षस्वरूभेणानामिकामध्यपर्वणि ॥ ५०॥

अनामा मध्यया हीना कनिष्ठादिक्रमेण तु ।
तर्जनीमूलपर्यन्तं गायत्रीजपलक्षणम् ॥ ५१॥

पर्वभिस्तु जपेदेवमन्यत्र नियमः स्मृतः ।
गायत्री वेदमूलत्वाद्वेदः पर्वसु गीयते ॥ ५२॥

दशभिर्जन्मजनितं शतेनैव पुरा कृतम् ।
त्रियुगं तु सहस्राणि गायत्री हन्ति किल्बिषम् ॥ ५३॥

प्रातःकालेयु कर्तव्यं सिद्धिं विप्रो य इच्छति ।
नादालये समाधिश्च सन्ध्यायां समुपासते ॥ ५४॥

अङ्गुल्यग्रेण यज्जप्तं यज्जप्तं मेरुलङ्घने ।
असङ्ख्यया च यज्जप्तं तज्जप्तं निष्फलं भवेत् ॥ ५५॥

विना वस्त्रं प्रकुर्वीत गायत्री निष्फला भवेत् ।
वस्त्रपुच्छं न जानाति वृथा तस्य परिश्रमः ॥ ५६॥

गायत्रीं तु परित्यज्य अन्यमन्त्रमुपासते ।
सिद्धान्नं च परित्यज्य भिक्षामटति दुर्मतिः ॥ ५७॥

ऋषिश्छन्दो देवताख्या बीजं शक्तिश्च कीलकम् ।
नियोगं न च जानाति गायत्री निष्फला भवेत् ॥ ५८॥

वर्णमुद्राध्यानपदमावाहनविसर्जनम् ।
दीपं चक्रं न जानाति गायत्री निषफला भवेत् ॥ ५९॥

शक्तिर्न्यासस्तथा स्थानं मन्त्रसम्बोधनं परम् ।
त्रिविधं यो न जानाति गायत्री तस्य निष्फला ॥ ६०॥

पञ्चोपचारकांश्चैव होमद्रव्यं तथैव च ।
पञ्चाङ्गं च विना नित्यं गायत्री निष्फला भवेत् ॥ ६१॥

मन्त्रसिद्धिर्भवेज्जातु विश्वामित्रेण भाषिम् ।
व्यासो वाचस्पतिर्जीवस्तुता देवी तपःस्मृतौ ॥ ६२॥

सहस्रजप्ता सा देवी ह्युपपातकनाशिनी ।
लक्षजाप्ये तथा तच्च महापातकनाशिनी ।
कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात् ॥ ६३॥

न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ।
शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् ॥ ६४॥

॥ इति श्रीमद्वसिष्ठसंहितोक्तं गयत्रीकवचं सम्पूर्णम् ॥


यह भी जानें–
Next Post Previous Post