श्री शनि रक्षा स्तवः | Shani Raksha Stavah


Shani Raksha Stavah Lyrics in Sanskrit:

HD image of Shani Raksha Stavah Lyrics in Sanskrit

श्री शनि रक्षा स्तवः

श्रीनारद उवाच

ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः ।
धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम् ॥

विनियोगः

ॐ अस्य श्रीशनिस्तवराजस्य सिन्धुद्वीप ऋषिः ।
गायत्री छन्दः । श्रीशनैश्चर देवता ।
श्रीशनैश्चरप्रीत्यर्थे पाठे विनियोगः ॥

ऋष्यादिन्यासः

शिरसि सिन्धुद्वीपर्षये नमः ।
मुखे गायत्रीछन्दसे नमः ।
हृदि श्रीशनैश्चरदेवतायै नमः ।
सर्वाङ्गे श्रीशनैश्चरप्रीत्यर्थे विनियोगाय नमः ॥

स्तवः

शिरो मे भास्करिः पातु भालं छायासुतोऽवतु ।
कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती ॥

घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु ।
स्कन्धौ संवर्तकः पातु भुजो मे भयदोऽवतु ॥

सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु ।
ग्रहराजः कटिं पातु सर्वतो रविनन्दनः ॥

पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः ॥

फलश्रुतिः

रक्षामेतां पठेन्नित्यं सौरेर्नामाबलैर्युतम् ।
सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः ॥

॥ इति श्रीशनिरक्षास्तवः ॥


यह भी जानें–
Next Post Previous Post