श्री गणेश सूक्‍तम्‌ (ऋग्वेदीय) | Shri Ganesh Suktam


Shri Ganesh Suktam (Rigwediya)

HD image of Shri Ganesh Suktam (Rigwediya) Lyrics in Sanskrit

श्री गणेश सूक्‍तम्‌ (ऋग्वेदीय)

आ तू न इन्द्र क्षुमन्तं चित्र ग्राभ सं गृभाय ।
महाहस्ती दक्षिणेन ॥१॥

विद्या हि त्वा तुविकूर्मि तुविदेष्णं तुवीमघम्‌।
तुविमात्रमवोभि: ॥२॥

नहि त्वा शूर देवा न मर्तासो दित्सन्तम्‌ ।
भीम॑ न गां वारयन्ते ॥३॥

एतो न्विन्द्रं स्तवामेशानं वस्व: स्वराजम्‌ ।
न राधसा मधिषन्न: ॥४॥

प्र स्तोषदुप गासिषच्छुवत्साम गीयमानं ।
अभि राधसा जुगुरत्‌ ॥५॥

आ ना भर दक्षिणेनाभि सब्येन प्र मृश ।
इन्द्र मा नो वसोर्निर्भाक्‌ ॥६॥

उप क्रमस्वा भर धृषता धृष्णो जनानां ।
अदाशूष्टरस्य वेद: ॥७॥

इन्द्र य उ नु ते अस्ति वाजो विप्रेभि सनित्व: ।
अस्माभि: सु तं सनुहि ॥८॥

सद्योजुवस्ते वाजा अस्मभ्य॑ विश्वश्वन्द्रा: ।
वशैश्व मश्षू जरन्ते॥९॥

ॐ गणानां त्वा गणपतिं हवामहे कविं कविनामुपम श्रवस्तमम्‌।
ज्येष्ठ राजं ब्रह्मणां ब्रह्मणस्पत आ नः श्रृण्वत्रूतिमिः सीद सादनम्‌॥ १० ॥

नि षु सीद गणपते गणेषु त्वामाहुर्विप्रंतमं कवीनाम्‌ ।
न ऋते त्वत्क्रियते किं चनारे महामर्कं मंघवज्चित्र्मर्च ॥ ११ ॥

अभिख्यानो मघवन्नाधमानान्त्सखे बोधि वसुपते सखीनाम्‌ ।
रण कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान्‌ ॥ १२ ॥

ॐ शांतिः शांतिः शान्तिः ॥

॥ इति गणपतिसूक्त समाप्तम्‌ ॥


यह भी जानें–
Next Post Previous Post