श्री गणेश पञ्चचामर स्तोत्रम् | Shri Ganesh Panchachamara Stotram


Shri Ganesh Panchachamara Stotram Lyrics in Sanskrit:

HD image of Shri Ganesh Panchachamara Stotram Lyrics in sanskrit

श्री गणेश पञ्चचामर स्तोत्रम्

॥ श्री गणेशाय नमः ॥

ललाट-पट्टलुण्ठितामलेन्दु-रोचिरुद्भटे,
वृताति-वर्चरस्वरोत्सररत्किरीट-तेजसि ।
फटाफटत्फटत्स्फुरत्फणाभयेन भोगिनां,
शिवाङ्कतः शिवाङ्कमाश्रयच्छिशौ रतिर्मम ॥ १॥

अदभ्र-विभ्रम-भ्रमद्-भुजाभुजङ्गफूत्कृती-,
र्निजाङ्कमानिनीषतो निशम्य नन्दिनः पितुः ।
त्रसत्सुसङ्कुचन्तमम्बिका-कुचान्तरं यथा,
विशन्तमद्य बालचन्द्रभालबालकं भजे ॥ २॥

विनादिनन्दिने सविभ्रमं पराभ्रमन्मुख-,
स्वमातृवेणिमागतां स्तनं निरीक्ष्य सम्भ्रमात् ।
भुजङ्ग-शङ्कया परेत्यपित्र्यमङ्कमागतं,
ततोऽपि शेषफूत्कृतैः कृतातिचीत्कृतं नमः ॥ ३॥

विजृम्भमाणनन्दि-घोरघोण-घुर्घुरध्वनि-,
प्रहास-भासिताशमम्बिका-समृद्धि-वर्धिनम् ।
उदित्वर-प्रसृत्वर-क्षरत्तर-प्रभाभर-,
प्रभातभानु-भास्वरं भवस्वसम्भवं भजे ॥ ४॥

अलङ्गृहीत-चामरामरी जनातिवीजन-,
प्रवातलोलि-तालकं नवेन्दुभालबालकम् ।
विलोलदुल्ललल्ललाम-शुण्डदण्ड-मण्डितं,
सतुण्ड-मुण्डमालि-वक्रतुण्डमीड्यमाश्रये ॥ ५॥

प्रफुल्ल-मौलिमाल्य-मल्लिकामरन्द-लेलिहा,
मिलन् निलिन्द-मण्डलीच्छलेन यं स्तवीत्यमम् ।
त्रयीसमस्तवर्णमालिका शरीरिणीव तं,
सुतं महेशितुर्मतङ्गजाननं भजाम्यहम् ॥ ६॥

प्रचण्ड-विघ्न-खण्डनैः प्रबोधने सदोद्धुरः,
समर्द्धि-सिद्धिसाधनाविधा-विधानबन्धुरः ।
सबन्धुरस्तु मे विभूतये विभूतिपाण्डुरः,
पुरस्सरः सुरावलेर्मुखानुकारिसिन्धुरः ॥ ७॥

अराल-शैलबालिका-ऽलकान्तकान्त-चन्द्रमो-,
जकान्तिसौध-माधयन् मनोऽनुराधयन् गुरोः ।
सुसाध्य-साधवं धियां धनानि साधयन्नय-,
नशेषलेखनायको विनायको मुदेऽस्तु नः ॥ ८॥

रसाङ्गयुङ्ग-नवेन्दु-वत्सरे शुभे गणेशितु-,
स्तिथौ गणेशपञ्चचामरं व्यधादुमापतिः ।
पतिः कविव्रजस्य यः पठेत् प्रतिप्रभातकं,
स पूर्णकामनो भवेदिभानन-प्रसादभाक् ॥ ९॥

छात्रत्वे वसता काश्यां विहितेयं यतः स्तुतिः ।
ततश्छात्रैरधीतेयं वैदुष्यं वर्द्धयेद्धिया ॥ १०॥

॥ इति श्रीकविपत्युपनामक-उमापतिशर्मद्विवेदि-विरचितं गणेशपञ्चचामरस्तोत्रं सम्पूर्णम् ॥


यह भी जानें–
Next Post Previous Post