श्री देवी ताण्डव स्तोत्रम् | Shri Devi Tandav Stotram

Shri Devi Tandav Stotram Lyrics in Hindi with Video and PDF
Shri Devi Tandav Stotram


Shri Devi Tandav Stotram:

श्री देवी ताण्डव स्तोत्रम्

ॐ तत् सत् ।
अमरतापसभूपसुरयोगिभिर्न्नुतपदाबुरुहे प्रणमास्पदे
निगममूर्द्धिनि नित्यविनोदिनि भवभयाभवमां परमेश्वरी ।
ॐ तत् सत् ।

अथ कुदाचिल् ।
अकारोकारमकारबिन्दुनादस्वरूपिणी ।
अखिलजगदैककारिणी । 

अखण्डपरिपूर्ण्ण सच्चिदानन्द स्वरूपिणी ।
अरुणकोटिकोटि प्रकाशदर्श्शिताश्रयाशार्क्कसोममण्डला नामुपरि । 

श्रीसादाख्य कलारूपत्वेनसाक्षिरूपतया ।
अनेककोटि ब्रह्माण्डानां । 

देवमनुश्यतिर्यग्योनिजातीनां ।
स्तापरजम्गमाण्डजाति चतुर्विधयोनि जातानां ।

तेशुत्तममद्ध्यमाधमानां ।
पुण्यमिश्रपापकर्म्मानु जातानामपि ।

अतलवितलसुतलतलातल महातल रसातल
पाताळसप्तधौलोकानां भूर्भुवादिसप्तोर्द्ध्वलोकानां ।

सर्ग्गस्थिति प्रळयहेतुभूततया ।
निरज्ञनाकरतया ।

नित्यशुद्धबुद्धमुक्तसत्य परमानन्दस्वरूपया वर्त्तमाने ।
इन्दुचूडप्रिये ।

शोडशकलाभारिन्दुरिव चन्द्रज्ञानविद्यायां प्रतिवादिते ।
नित्यानन्दैकरसानुभवचित्तानां निर्म्मलानां ।

द्वैत प्रपञ्चवासनाव्यतिरक्तकलिमलदोशाणां ।
शुद्धबोधानन्दाकार सविन्मये पावके ।

सन्चितागामिसकप्रारब्धकर्मोत्भव सुखसुखादिर्भिद्रवैर्यजतां ।
हुताशीनां निखिललोकैकसाक्षित्वेन ।

सर्वमम्गलोपेतशिवस्वरूपत्वेन ।
तुर्यातीत निश्चलनिर्व्विकल्प ।

सजातीय विजातीय स्वगतभेदरहित्वेन ।
त्रैपुटीसाक्षित्वेन ।

शरीरत्रय विलक्षणरूपतया ।
अवस्थात्रय साक्षित्वेन पञ्चकोशव्यतिरक्त्वत्वेन
सच्चिदानन्दस्वरूपतया ।

तत्वमस्यादि महावाक्यजन्यज्ञानज्ञेय स्वरूपतया
शुद्धस्वयं प्रकाशे ज्योतिस्वरूपे ।
परब्रह्मणी ।

दीनवृत्तीनां अर्त्थपुत्रमित्रकळत्रसदनादिसम्बन्धैः संसारैः
कामक्रोधलोभमोहमदमात्सर्यरागद्वेशादिभिर्म्मेघैर्न्निमुक्ते
दहराकाशेतिशुचौ दशादि पञ्चदशकलाभिस्सकळरूपत्वेन ।

श्री सदाख्याभिधानया कलया निश्कळस्वरूपत्वेन ।
पूर्णकारतयाच शशभृद्दिविविद्यामाने ईश्वरस्य गृहणी ।

ईश्वररुद्रविश्णुब्रह्माणां व्युल्क्रमेन
सृश्टिस्थितिसंहार तिरोधान कर्तृभूतानां ।

नकारमकारशिवकाराणामपि हेमस्फटिक माणिक्यनीलवर्ण्णानां
मूलाधारं विहाय चतुश्चत्वारिशद्वर्ण्णनां पदानामुपरि यो ।

यकाररूपः सदाशिवः तटिज्वलेवानु
मय्यानुग्रहशक्त्या अतिसूक्ष्माकार गगनाकारतयावर्त्तते ।

तदाकाफलकांविधाय एतादृशगुणविशिश्तदिवसनो
वेदवेदाम्गवेदान्तादि सकलमताधिश्ठान रूपतया ।

शैवागमोक्तप्रकाराल् ।
ओम्कार स्वरूपतया ।

शाक्तानुगतसकलशास्त्राणां ।
पूर्वापरपक्षाणां ।

एकीभूताधारेय लक्ष्यस्वरूपतया ।
ह्रीइङ्कारस्वरूपतया ।
च अथवा परमरहस्याकारायां श्रीपञ्चदशाक्षर्यां
आत्मविद्यामतिशूच्यां हरिहरविरिञ्चादिभिरभ्यर्च्चमानियां ।
तस्योपासकानां ।

ईकारसहितश्रीकार रेफबिन्दुस्वरूपतया विराजमाने ।
उल्कृश्तकर्म्मोपासना यो गैश्वर्यादिशुविनुर्म्मुक्त
चित्तानां शुद्धोपनिशल् सम्भृत वेदान्त वाक्यार्त्थवेदीनां
परमहंसानांवरिश्ठवृतीनामति वर्ण्णाश्रम प्रवृत्तानां
तत्वविदां नादरूपरहितानन्दाकार विश्वतैजस प्राज्ञानामपि विराट्
हिरण्यगर्भान्तर्यामिणाञ्च प्रजापत्य चिज्वलित शान्तानां मूलाधार
स्वाधिश्ठानमणिपूरकानां हत विशुद्ध्याज्ञाचक्राणामुपरि
चतुर्विंशति तत्वानश्च सर्वज्ञ सर्व्वाकारण
सर्व्वेश्वर सर्व्वान्तर्यामि सर्वसृश्ति सर्वस्थिति सर्वसंहार
सप्तोपाधिभिःर्ज्जहदजहल् लक्षणया सोयं
देवतत्तेत्यखण्डवाक्यानुवृत्या ।

शिवकारतया च परमात्मस्वरूपेण भासमामाणे
आदिव्याधि उत्भव दुखैरतितीव्रै व्रजभिः गृहे अत्रधनधान्य
पुत्रमित्रकळत्रादिभिः रतिभयानकैजलजन्तुभिः दुस्तरे महावारिधौ
निमग्नमतिदीनं मां त्वदीयया भक्तरक्षणनिपुणया करुणाद्रया
दृष्ट्या उद्धरोद्धर रक्षरक्षत्वच्चरणारविन्दे निवेशय निवेशय ॥
॥ ॐ तत् सत् ॥


यह भी जानें–
Next Post Previous Post