श्री शङ्कराष्टकम् (भाग 1) | Shri Shankara Ashtakam with Lyrics


Shankara Ashtakam with Lyrics

HD image of Shri Shankara Ashtakam with Lyrics, pdf and Videos
Shri Shankara Ashtakam

शङ्कराष्टकम्

॥ श्रीगणेशाय नमः ॥

शीर्षजटागणभारं गरलाहारं समस्तसंहारम् ।
कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १ ॥

चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम् ।
कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥ २ ॥

कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् ।
संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३ ॥

कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् ।
विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४ ॥

त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैव संशान्तम् ।
लीलाविजितकृतान्तं भान्तं स्वान्तेपु देहिनां वन्दे ॥ ५ ॥

सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदालयावेशम् ।
विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥ ६ ॥

करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकम् ।
परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥ ७ ॥

भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम् ।
प्रमथसमूहसहायं सायं प्रातर्निरन्तरं वन्दे ॥ ८ ॥

यस्तुपदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम् ।
पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥ ९ ॥

॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीशङ्कराष्टकं सम्पूर्णम् ॥


यह भी जानें–
Next Post Previous Post