अमोघ शिव कवच | Amogh Shiv Kavach


Amogh Shiv Kavach:

Amogh Shiv Ka vachan Lyrics pdf and video

अमोघ शिव कवच

अस्य श्रीशिवकवच स्तोत्र महामन्त्रस्य ऋषभ योगीश्वर ऋषिः अनुष्टुप्छन्दः श्री सदाशिवरुद्रो देवता, ह्रीं शक्तिः, रं कीलकं, श्रीं ह्रीं क्लीं बीजं, श्रीसदाशिवप्रीत्यर्थे शिवकवचस्तोत्रजपे विनियोगः ॥

करन्यासः

ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ नं रीं नित्यतृप्तिशक्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने करतलकरपृष्ठाभ्यां नमः ॥

हृदयाद्यङ्गन्यासः

ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने हृदयाय नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ नं रीं नित्यतृप्तिशक्तिधाम्ने तत्पुरुषात्मने शिरसे स्वाहा ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने शिखायै वषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने कवचाय हुम् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने नेत्रत्रयाय वौषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने अस्त्राय फट् ॥

ध्यानम्

वज्रदम्ष्ट्रं त्रिनयनं कालकण्ठमरिन्दमम् ।
सहस्रकरमत्युग्रं वन्दे शम्भुमुमापतिम् ॥

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः फालान्तरालधृतभस्मसितत्रिपुण्ड्रः ।
पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥

अतः परं सर्वपुराणगुह्यं निश्शेषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवं कवचं हिताय ते ॥

पञ्चपूजा

लं पृथिव्यात्मने गन्धं समर्पयामि ।
हं आकाशात्मने पुष्पैः पूजयामि ।
यं वाय्वात्मने धूपमाघ्रापयामि ।
रं अग्न्यात्मने दीपं दर्शयामि ।
वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥

ऋषभ उवाच
नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ १ ॥

शुचौ देशे समासीनो यथावत्कल्पितासनः ।
जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्यम् ॥ २ ॥

हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् ।
अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत्परानन्दमयं महेशम् ॥ ३ ॥

ध्यानावधूताखिलकर्मबन्धः चिरं चिदान्दनिमग्नचेताः ।
षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥ ४ ॥

मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं वरमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥ ५ ॥

सर्वत्र मां रक्षतु विश्वमूर्तिः ज्योतिर्मयानन्दघनश्चिदात्मा ।
अणोरणीयानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥ ६ ॥

यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः ।
योऽपां स्वरूपेण नृणां करोति सञ्जीवनं सोऽवतु मां जलेभ्यः ॥ ७ ॥

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रोऽवतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात् ॥ ८ ॥

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीतिकुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ॥ ९ ॥

कुठार खेटाङ्कुशपाशशूल कपालमालाग्निकणान् दधानः ।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥ १० ॥

कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमालावरदाभयाङ्कः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्योऽधिजातोऽवतु मां प्रतीच्याम् ॥ ११ ॥

वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥ १२ ॥

वेदाभयेष्टाङ्कुशटङ्कपाश कपालढक्काक्षरशूलपाणिः ।
सितद्युतिः पञ्चमुखोऽवतान्मां ईशान ऊर्ध्वं परमप्रकाशः ॥ १३ ॥

मूर्धानमव्यान्मम चन्द्रमौलिः फालं ममाव्यादथ फालनेत्रः ।
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥ १४ ॥

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली ।
वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥ १५ ॥

कण्ठं गिरीशोऽवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखान्तकोऽव्यात् ॥ १६ ॥

ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी ।
हेरम्बतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ॥ १७ ॥

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् ।
जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात्सुरवन्द्यपादः ॥ १८ ॥

महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः ।
त्रिलोचनः पातु तृतीययामेवृषध्वजः पातु दिनान्त्ययामे ॥ १९ ॥

पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥ २० ॥

अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।
तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥ २१ ॥

तिष्ठन्तमव्याद्भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः ।
वेदान्तवेद्योऽवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥ २२ ॥

मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः ।
अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥ २३ ॥

कल्पान्तकालोग्र पटुप्रकोपः स्फुटाट्टहासोच्चलिताण्डकोशः ।
घोरारिसेनार्णवदुर्निवार- महाभयाद्रक्षतु वीरभद्रः ॥ २४ ॥

पत्त्यश्वमातङ्गघटावरूथ सहस्रलक्षायुतकोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठारधारया ॥ २५ ॥

निहन्तु दस्यून्प्रलयानलार्चि- र्ज्वलत्त्रिशूलं त्रिपुरान्तकस्य ।
शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीश धनुः पिनाकः ॥ २६ ॥

दुस्स्वप्न दुश्शकुन दुर्गति दौर्मनस्य दुर्भिक्ष दुर्व्यसन दुस्सह दुर्यशांसि ।
उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥ २७ ॥

कवचम्

ॐ नमोभगवते सदाशिवाय- सकलतत्त्वात्मकाय- सर्वमन्त्रस्वरूपाय- सर्वयन्त्राधिष्ठिताय- सर्वतन्त्र स्वरूपाय- सर्व तत्त्वविदूराय- ब्रह्म रुद्रावतारिणे- नीलकण्ठाय- पार्वती मनोहर प्रियाय- सोमसूर्याग्नि लोचनाय- भस्मोद्धूलित विग्रहाय- महामणि मकुटधारणाय- माणिक्यभूषणाय- सृष्टिस्थितिप्रलयकाल रौद्रावताराय- दक्षाध्वर ध्वंसकाय- महाकालभेदनाय- मूलाधारैकनिलयाय- तत्त्वातीताय- गङ्गाधराय- सर्वदेवादिदेवाय- षडाश्रयाय- वेदान्त साराय- त्रिवर्गसाधनाय- अनन्तकोटि ब्रह्माण्डनायकाय- अनन्त वासुकि तक्षक कर्कोटक शङ्ख कुलिक पद्म महापद्मेत्यष्ट महानाग कुल भूषणाय- प्रणवस्वरूपाय- चिदाकाशायाकाश दिक्स्वरूपाय- ग्रहनक्षत्रमालिने- सकलाय- कलङ्क रहिताय- सकललोकैककर्त्रे- सकललोकभर्त्रे- सकल लोकैकसंहर्त्रे- सकललोकैकगुरवे- सकललोकैकसाक्षिणे- सकलनिगमगुह्याय- सकलवेदान्तपारगाय- सकललोकैक वरप्रदाय- सकललोकैक शङ्कराय- सकल दुरितार्तिभञ्जनाय- सकल जगदभयङ्कराय- शशाङ्कशेखराय- शाश्वतनिजावासाय़- निराकाराय़- निराभासाय- निरामयाय- निर्मलाय- निर्लोभाय़- निर्मदाय- निश्चिन्ताय- निरहङ्काराय- निरङ्कुशाय़- निष्कलङ्काय- निर्गुणाय- निष्कामाय- निरुपप्लवाय- निरवद्याय- निरन्तराय़- निष्कारणाय- निरातङ्काय- निष्प्रपञ्चाय- निस्सङ्गाय- निर्द्वन्द्वाय- निराधाराय- नीरागाय- निष्क्रोधाय- निर्लाय- निर्लोपाय- निष्पापाय- निर्भयाय- निर्विकल्पाय- निर्भेदाय- निष्क्रियाय- निस्तुलाय- निस्सम्शयाय- निरञ्जनाय- निरुपमविभवाय- नित्यशुद्धबुद्धमुक्तपरिपूर्णसच्चिदानन्दाद्वयाय- परमशान्तस्वरूपाय- परमशान्तप्रकाशाय़- तेजोरूपाय- तेजोमयाय- तेजोऽधिपतये- जयजय रुद्र महारुद्र- महारौद्र- भद्रावतार महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वाङ्गखड्गचर्मपाशाङ्कुश डमरु शूल चाप बाण गदा शक्ति भिण्डि वाल तोमर मुसल मुद्गर पाश परिघ भुशुण्डी शतघ्नी चक्राद्यायुध भीषणकर सहस्रमुख दम्ष्ट्राकरालवदन विकटाट्टहास विस्फरित ब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर नागेन्द्रनिकेतन मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतोमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वलप्रज्वल महामृत्यु भयं शमय शमय अपमृत्युभयं नाशय नाशय- रोगभयं उत्सादयोत्सादय- विषसर्पभयं शमय शमय- चोरान्मारय मारय- मम शत्रूनुच्चाटयोच्चाटय- त्रिशूलेन विदारय विदारय- कुठारेण भिन्धिभिन्धि खड्गेन छिन्धिछिन्धि खट्वाङ्गेन व्यपोथय व्यपोथय मम पापं शोधय शोधय- मुसलेन निष्पेषय निष्पेषय- बाणैस्सन्ताडय सन्ताडय- यक्षरक्षांसि भीषय भीषय अशेषभूतान् विद्रावय विद्रावय- कूष्माण्ड भूतवेताल मारीगण ब्रह्मराक्षसगणान् सन्त्रासय सन्त्रासय मम अभयं कुरुकुरु- नरकभयान्मामुद्धर उद्धर- वित्रस्तं मामाश्वासयाश्वासय- अमृतकटाक्ष वीक्षणेन मां आलोकय आलोकय- सञ्जीवय सञ्जीवय- क्षुत्तृड्भ्यां मामाप्याययाप्यायय- दुःखातुरं मामानन्दयानन्दय- शिवकवचेन मामाच्छादयाच्छादय- हरहर मृत्युञ्जय त्र्यम्बक सदाशिव नमस्ते नमस्ते नमः ।

करन्यासः

ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अङ्गुष्ठाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ नं रीं नित्यतृप्तिशक्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्यां नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने करतलकरपृष्ठाभ्यां नमः ॥

हृदयाद्यङ्गन्यासः

ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने हृदयाय नमः ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ नं रीं नित्यतृप्तिशक्तिधाम्ने तत्पुरुषात्मने शिरसे स्वाहा ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने शिखायै वषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ शिं रैं स्वतन्त्रशक्तिधाम्ने वामदेवात्मने कवचाय हुम् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने नेत्रत्रयाय वौषट् ।
ॐ नमो भगवते ज्वलज्ज्वालामालिने
ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने अस्त्राय फट् ॥
भूर्भुवस्सुवरोमिति दिग्विमोकः ॥

फलश्रुतिः

ऋषभ उवाच
इत्येतत्कवचं शैवं वरदं व्याहृतं मया ।
सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥ १ ॥

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।
न तस्य जायते क्वापि भयं शम्भोरनुग्रहात् ॥ २ ॥

क्षीणायुः प्राप्तमृत्युर्वा महारोगहतोऽपि वा ।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ॥ ३ ॥

सर्वदारिद्र्यशमनं सौमाङ्गल्यविवर्धनम् ।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥ ४ ॥

महापातकसङ्घातैर्मुच्यते चोपपातकैः ।
देहान्ते मुक्तिमाप्नोति शिववर्मानुभावतः ॥ ५ ॥

त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥ ६ ॥

सूत उवाच
इत्युक्त्वा ऋषभो योगी तस्मै पार्थिवसूनवे ।
ददौ शङ्खं महारावं खड्गं चारिनिषूदनम् ॥ ७ ॥

पुनश्च भस्म संमन्त्र्य तदङ्गं परितोऽस्पृशत् ।
गजानां षट्सहस्रस्य द्विगुणस्य बलं ददौ ॥ ८ ॥

भस्मप्रभावात्सम्प्राप्त बलैश्वर्य धृतिस्मृतिः ।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥ ९ ॥

तमाह प्राञ्जलिं भूयः स योगी नृपनन्दनम् ।
एष खड्गो मया दत्तस्तपोमन्त्रानुभावतः ॥ १० ॥

शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम् ।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥ ११ ॥

अस्य शङ्खस्य निर्ह्रादं ये शृण्वन्ति तवाहिताः ।
ते मूर्छिताः पतिष्यन्ति न्यस्तशस्त्रा विचेतनाः ॥ १२ ॥

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशिनौ ।
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ॥ १३ ॥

एतयोश्च प्रभावेन शैवेन कवचेन च ।
द्विषट्सहस्रनागानां बलेन महतापि च ॥ १४ ॥

भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।
प्राप्य सिंहासनं पित्र्यं गोप्ताऽसि पृथिवीमिमाम् ॥ १५ ॥

इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां सम्पूजितः सोऽथ योगी स्वैरगतिर्ययौ ॥ १६ ॥

॥ इति श्रीस्कान्दपुराणे ब्रह्मोत्तरखण्डे श्रीशिवकवच स्तोत्रप्रभाववर्णनं नाम द्वादशोऽध्यायः ॥


यह भी जानें–
Next Post Previous Post